________________
१०
षड्भाषाचन्द्रिकायां
राम्बरशब्दौ । एतौ लक्षणनिरपेक्षौ । लक्षणेन तु 'ताम्राम्रयोम्बः ' इत्यनेन सूत्रेण ताम्राम्रशब्दयोर्युक्तस्य म्ब इति विधाने तम्बं अम्बं इति भवति । तत्समा संस्कृतसमा यथा आहो अहो अंहो नाम हे अहह ह अ इत्यादि । इयं तु संस्कृतमार्गेणैव भवति । तद्भवा संस्कृतभवा । सा च प्रकृतिभूतस्य संस्कृतस्य सिद्धावस्थापेक्षया साध्यावस्थापेक्षया च जायमानत्वात् सिद्धा साध्या चेर्ति द्विविधा भवति । द्विविधाया अपि सिद्ध्यर्थमिदं शास्त्रमारब्धव्यम् | सिद्धावस्थया जयमानं रूपं साध्यावस्थया जायमानं रूपं च यथास्थानं दर्शयिष्यामः ॥
इति श्रीदक्षिणामूर्तिकिङ्करेण लक्ष्मीधरेण विरचितायां षड्भाषाचन्द्रिकायापोद्घातप्रक्रिया ॥
अथ संज्ञावतारः प्रदर्श्यते
संज्ञाप्रत्याहारमयी वा ॥ १ । १ । ३ ॥
इत्यधिकृत्य
सुखादिरन्त्यहला || १ । १ । ४ ॥
सुखादिविभक्तिषु आदिर्वर्णो वचनं वा अन्त्यहला अन्त्यव्यञ्जनेन सह संज्ञा भवति । यथा सु औ जस् इति त्रयाणां सुम् इति संज्ञा । अम् औद् शस् इति त्रयाणामस् इति संज्ञा । टा भ्याम् भिस् इति त्रयाणां टास् इति संज्ञा । डे भ्याम् भ्यस् इति त्रयाणां डेस् इति संज्ञा । ङसि भ्याम् भ्यस् इति त्रयाणां 'डेसिम् इति संज्ञा । ङस् ओस् आम् इति त्रयाणां ङम् इति संज्ञा । डि ओस् सुप् इति त्रयाणां डिप् इति संज्ञा । कृतानां संज्ञानां शस्त्रे उपयोगः प्रदर्श्यते ।
१ इति सूत्रेण My ., P. २ ताम्राम्रयो My, P. ३ विधानेन R. ४ साध्येति My ., M. ५ सिद्धावस्थाया R. ६ जायमानरूपखरूपं M. ७ जायमानरूपस्वरूपं M. • M. drops इति श्री ........प्रक्रिया. ९ मूर्तिदेव किङ्करेण R. १० उच्यते R.; सम्यगुपदर्श्यते My स्वादि My . १२ R. drops अन्त्य. १३ डसीति संज्ञा M. पयोगः M.
Jain Education International
For Private & Personal Use Only
*****.
P. ११ सुप्१४ शास्त्रो
www.jainelibrary.org