________________
षड्भाषाचन्द्रिकायां इत्यादिसूत्रैर्लोपादेशागमानां विधानात् । लिङ्गवैपरीत्यं च 'अक्ष्यर्थकुलाद्या वा' इति सूत्रेण संस्कृते नित्यनपुंसकवाचिनामक्षिपर्यायाणां कुलादीनां चात्र पुंलिङ्गे वा प्रयोगात् 'क्लीबे गुणगाः' इति सूत्रेण संस्कृते नित्यपुंलिङ्गानां गुणादीनां नपुंसके वा प्रयोगात् 'स्त्रियामिमाञ्जलिगाः' इति सूत्रेण संस्कृते पुंलिङ्गानामिम॑निजन्तानामञ्जल्यादीनां चें स्त्रीलिङ्गे प्रयोगाच्च निश्चितम् । आत्मनेपदपरस्मैपदनियमाभावस्तु 'लटस्तिप्ताविजेच', 'सिप्थास्सेसि' 'मिर्मिबिटौ' इत्यादिसूत्रैर्धातुमात्रविहिततिबादीनामिजाद्यादेशविधानादवधारितः । विकरणप्रत्ययानां शबादीनां प्रयोगोप्यत्र शास्त्रे नास्ति । 'न शपाम्' इत्यनेन सूत्रेण 'प्रेतिषेधात् । द्वितीयादिविभक्तीनां स्थाने षष्ठी 'कचिदसादेः' इति सूत्रेण विहिता । चतुर्थी योगोप्यत्र न संभवति । 'उसो ङम्' इति सूत्रेण डेसश्चतुर्थ्याः स्थाने ङमः षष्ठ्या विधानात् । तादर्थ्यचतुर्थ्या एकवचने तु सा षष्ठी 'तादर्थे उस्तु' इत्यनेन सूत्रेण विकल्पेन विहिता बोद्धव्या । वधशब्दात् परस्य चतुर्येकवचनस्य स्थानेपि 'वधाड्डायि च' इत्यनेन सूत्रेण सा षष्ठी विकल्पिता । अन्यत्र नित्यैव षष्ठी । सप्तम्याः स्थाने द्वितीया 'ङिपोस्' इत्यनेन सूत्रेण विहिता । ननु यदि प्राकृते द्विवचनप्रयोगो नास्ति कथं तर्हि सूत्रकृता 'बाहिंबाहिरौ बहिसः' 'उभयाधसोरवहहेह्रौ' इति प्राकृतरूपयो
१°कुलाद्वा वा M. २ नपुंसकलिङ्गवाचिना My., P.३ पुंलिङ्गवाचकानां R. ४ R. omits वा. ५ पुंलिङ्गवाचिना R. ६ R. drops इमनिजन्तानाम्. ७ R. omits च. ८ M. has चा after स्त्रीलिङ्गे. ९ 'टास्से' R. १० मियभिदा R. ११ अनेन is dropped by My., P., and M. १२ निषेधात् My., M., P. १३ सूत्रेणापि विहिता M. १४ M. drops अत्र and substitutes शास्त्रे before न संभवति. १५ My. and P. drop अनेन. १६ पदशब्दात् R.; वधात् परस्य &c. M. १. डे for चतुर्येकवचनस्य My., M., P. १८ °द्धायि R. १९ My. and M. drop अनेन. २० R. drops अनेन. २१ M. drops सूत्रेण. २२ °सूत्रयो' My., P.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org