________________
उपोद्घातप्रक्रिया। सिद्धिर्लोकाच ॥ १।१।१॥ सिद्धिरिह प्रस्तुता प्राकृतशास्त्रसंबन्धिनी गृह्यते । सा च लोकाद्धवति । यस्माइलवर्णाभ्यां शषाभ्यामैकारौकाराभ्यामसंयुक्तङअकाराभ्यां द्विवचनाच्च विरहितः शब्दोचारो लोकव्यवहारादेवोपलभ्यते । तस्मात् सिद्धिोकादिति वेदितव्यम् । चकाराद्वक्ष्यमाणलक्षणाच्च । नन्वेतावान् सूत्रार्थ इति कथं निर्णीतम् । वृत्तिकारत्रिविक्रमदेववचनात् । वृत्तिकारेण वा कथं निरणायि । उत्तरत्र सूत्रकृतो व्यवहारात् । तथाहि । ऋलवर्णयोस्तावत् प्रयोगो न संभवति । 'वा मृदुत्वमृदुककृशाखात्' 'ऋतोत्' इत्यादिसूत्रैर्ऋकारस्यानेकेषामादेशानां विधानात् । 'क्लुप्त ईलिः' इत्यनेन सूत्रेण लकारस्यापि ईलिरित्यादेशविधानात् । शषयोरपि प्रयोगो न संगच्छते । 'शोस्सल' इत्युभयोः सत्वविधानात् । ऐकारौकारयोरपि प्रयोगो न संमतः । 'ऐच एङ्' इत्युभयोरेङ्त्वविधेः । यद्यप्यैकारौकारयोः स्थाने एंड्त्वविधिस्तथाप्यैकारस्य क्वचित् प्रयोगोस्ति । 'अई ऐ' इति सूत्रेण अँइ इत्यस्य स्थाने ऐकारविधानात् । असंयुक्तङनकारयोरपि प्रयोगाभावः सूत्रकारव्यवहारादेव निर्धारितः । 'शुल्के ङ्गः' इति सूत्रेण शुल्कशब्दे संयुक्तस्य डाक्रान्तगकारविधानात् । 'प्राक् श्लाघाप्लक्षशाङ्गै ढोत्' 'इति सूत्रेण ड्डाँत् प्रागत्त्व विधेः । 'वर्गेन्त्यः' इति सूत्रेण वङ्गो इत्यादौ 'वर्गेन्त्यविधेश्च । 'श्चेवृश्चिके चुर्वा' इति सूत्रेण वृश्चिकशब्दे श्च् इत्यस्य आक्रान्तचकारविधेश्च । द्विवंचनप्रयोगाभावोपि 'द्विवचनस्य बहुवचनम्' इति सूत्रादेव स्फुटः । हलन्तानामपि न प्रयोगः । 'अन्त्यहलो|दुदि' 'शरदामत्' 'हलो'
My. and P. drop शास्त्र. २ परिगृह्यते R. ३ जङ P. ४ विरहितशब्दोच्चारो M. ५ कथं वा M. ६ निर्णीयते M. ७ इतिः R. ८ ऋकार स्यापि My. ९ इति° R. १० °स्स R. ११ एड्विधि M. १२ अयि ऐ P., R. १३ अयीत्यस्य P. १४ M. adds इति after 'विधानात् १५ इत्यनेन सूत्रेण M. १६ डालात् M., M,. १७ वर्ये° P. १८ वर्गान्तविधेश्चM.; वर्गा' P. १९ सुर्वा M. २० द्विवचनस्य प्रयोगा' R. २१ श्रुदुदी M. २२ मल् M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org