________________
षड्भाषाचन्द्रिकायां अथ शास्त्रोपोद्धातप्रक्रियोच्यते । सिद्धिः संस्कृतशब्दानां भवेत् पञ्चाशदक्षरैः । प्राकृतानां तु सिद्धिः स्यात् तैश्चत्वारिंशदक्षरैः ॥ ३९ ॥ ऋलवौँ विनैकारौकाराभ्यां च दश खराः । शषावसंयुक्तङऔ विनैवान्ये हलो मताः ॥ ४० ॥ प्राकृते न द्विवचनं सुप्तिङां चोपपद्यते । यस्माद् द्विवचनस्थाने बहुत्वं सूत्रचोदितम् ॥ ४१ ॥ हलन्तता नान्त्यहलां सूत्रैलॊपानुशासनात् । लिङ्गानां वैपरीत्यं च संस्कृतात् प्रकृते भवेत् ॥ ४२ ॥ द्वितीयादिविभक्तीनां स्थाने षष्ठी कचिद्भवेत् । चतुर्थ्या अपि षष्ठी स्यान्नित्यमेकबहुत्वयोः ॥ ४३ ॥ तादर्थे तु चतुर्थ्याः स्यादेकत्वे सा विकल्पिता । वधात्परस्य डे: स्थाने षष्ठी डॉयि च वा भवेत् ।। ४४ ॥ द्वितीया सप्तमीस्थाने कुत्रचित् सूत्रचोदिता । नियमो नात्मनेभाषापरस्मैपदिनोरिह ॥ ४५ ॥ शबादिप्रत्ययानां तु प्रयोगो नात्र संमतः । एतत् सर्व बहून् ग्रन्थान् सूत्राण्यालोच्य निश्चितम् ॥ ४६ ॥ त्रिविधा प्राकृती भाषा भवेद् देश्या च तत्समा । तद्भवा च भवेद् देश्या तत्र लक्षणमन्तरा ॥ ४७ ॥ तत्समा संस्कृतसमा नेया संस्कृतवर्मना । तद्भवा संस्कृतभवा सिद्धा साध्येति सा द्विधा । द्विविधायाश्च सिद्ध्यर्थ प्राकृतं लक्षणं मतम् ॥ १८ ॥ नन्वेतत् सर्व नियमजातं त्वया कथं निश्चितम् । सूत्रकारवचनात् । सथाहि सूत्रम्--
१.पादिशासनात् R., My., P. २ प्राकृतीभवेत् and प्राकृता भवेत् M. ३ विकल्पना M.; एकत्वेनापि कल्पिता R. ४ दायी M., R. ५R. drops नियमजातम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org