________________
प्राकृत विनियोगः ।
अपभ्रंशस्तु भाषा स्यादाभीरादिगिरां चयः । कविप्रयोगानईत्वान्नापशब्दः स तु क्वचित् ॥ ३१ ॥ तथा चोक्तं दण्डिनैव
इति ।
'भीरादिगिरः काव्येष्वपभ्रंशा इति स्मृताः । शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् ॥'
अथ विनियोग उच्यते ।
तत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् ।
५
क्वचिच्च देवीगणिकामन्त्रिराजादियोषिताम् ॥ ३२ ॥ योगिन्यप्सरसां शिल्पकारिण्या अपि संस्कृतम् । ये नीचाः कर्मणा जात्या तेषां प्राकृतमुच्यते ॥ ३३ ॥ छद्म लिङ्गवतां तद्वज्जैनानामिति केचन । अँधमे मध्यमे वापि शौरसेनी प्रयुज्यते ॥ ३४ ॥ धीवराद्यतिनीचेषु मागधी विनियुज्यते । रक्षःपिशाचनीचेषु पैशाचीद्वितयं भवेत् ॥ ३५ ॥ अपभ्रंशस्तु चण्डालयवनादिषु युज्यते । नाटकादावपभ्रंशविन्यासस्यासहिष्णवः ॥ ३६ ॥ अन्ये चण्डालकादीनां मागध्यादि प्रयुञ्जते । सर्वेषां कारणवशात् कार्यो भाषाव्यतिक्रमः ॥ ३७ ॥ माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा । प्रच्छादनं च विभ्रान्ति यथा लिखितवाचनम् । कदाचिदनुवादं च कारणानि प्रचक्षते ॥ ३८॥
१ दाभीर्यादि M. २ 'नापशब्दस्य तु M. ३ आभीर्यादि M. ४ My. and P. drop उच्यते. ५ देव M.; देवी is also noticed by M. ६ न्यप्सरसोः R. ७ प्रायेण प्राकृतस्थाने My; P notices both the readings प्रायेण प्राकृतस्थाने and अधमे मध्यमे वापि . ८ चाण्डाल° P.; My. also notices it. ९ प्रयुज्यते R., M.
Jain Education International
५
For Private & Personal Use Only
www.jainelibrary.org