SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 20 षड्भाषाचन्द्रिकायां त्रैविक्रमं हैमचन्द्रं गुरोर्ज्ञात्वा च भामहम् । कविसौख्याय तत्सर्वमत्र संक्षिप्यते मया ॥ २२ ॥ अथ द्रष्टृणां प्रतिपत्तिसौकर्याय रूपकपरिभाषोक्तं भाषाणां खरूपं विनियोगश्च कथ्यते । भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः । कौमारपाणिनीयादिसंस्कृता संस्कृता मता ॥ २३ ॥ इयं तु देवतादीनां मुनीनां नायकस्य च । विप्रक्षत्रवणिकशूद्रमन्त्रिकञ्चुकिनामपि ॥ २४ ॥ लिङ्गिनां च विटादीनामनीचानां प्रयुज्यते । प्रकृतेः संस्कृतायास्तु विकृतिः प्राकृती मता ॥ २५ ॥ पड्डिधा सा प्राकृती च शौरसेनी च मागधी । पैशाची चूलिकापैशाच्यपभ्रंश इति क्रमात् ॥ २६ ॥ तत्र तु प्राकृतं नाम महाराष्ट्रोद्भवं विदुः । तथा चोक्तं दण्डिना'महाराष्ट्राश्रयां भाषां ग्रैंकृष्टं प्राकृतं विदुः' इति । शूरसेनोद्भवा भाषा शौरसेनीति गीयते ॥ २७ ॥ मगधोत्पन्नभाषां तां मागधी संप्रचक्षते । पिशाचदेशनियतं पैशाचीद्वितयं भवेत् ॥ २८ ॥ पिशाचदेशास्तु वृद्धरुक्ताः पाण्ड्यकेकयबाहीकसिंहनेपालकुन्तलाः । सुधेष्णभोजगान्धारहैकन्नोजनास्तथा ॥ २९ ॥ एते पिशाचदेशाः स्युस्तद्देश्यस्तद्गुणो भवेत् । पिशाचजातमथवा पैशाचीद्वयमुच्यते ॥ ३० ॥ १ प्रवृत्तिसौकर्याय M. २ प्राकृता M.; noticed by My. which gives प्राकृती also. ३ घिशिनां R. ४ प्राकृतं R. ५ च R. ६ प्रकृष्टां प्राकृतं My., P.; My. notices प्रकृष्टां प्राकृतीं. ७ पैशाचदेशे M.; पैशाचदेश M. ८ 'बाहाक' R. ९ सुधेष्णबोटगान्धार My., P. १० हैवकन्नोजका R.; हेमकनोजिनास्तथा M, ११ भवेदिति R. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy