SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ कविवंशकीर्तनम् । ताभ्यामुदभवन् पुत्राः सर्वाचारनियामकाः । विधिमन्त्रार्थवादज्ञाश्चत्वारो निगमा इव ॥ ११ ॥ षड्दर्शनीतत्त्वविवेककर्ता खशिष्यसंपादितदिग्जयश्रीः । तेष्वादिमः पण्डितपट्टभद्रः श्रीकौण्डभट्टो जयतीह लोके ॥ १२ ॥ लक्ष्मीधरस्तदनुजो दक्षिणामूर्तिकिङ्करः । सर्वविद्वत्कविमतः सज्जनाप्तो विराजते ॥ १३ ॥ तेन लक्ष्मीधरायेण षड्भाषाचन्द्रिकानघा । विद्वत्कविचकोराणां प्रीतये क्रियतेधुना ॥ १४ ॥ वाग्देवी जननी येषां वाल्मीकिर्मूलसूत्रकृत् । भाषाप्रयोगा ज्ञेयास्ते षड्भाषाचन्द्रिकाध्वना ॥ १५ ॥ वृत्तिं त्रैविक्रमी गूढां व्याचिख्यासन्ति ये बुधाः । षड्भाषाचन्द्रिका तैस्तद्व्याख्यापा विलोक्यताम् ॥ १६ ॥ यत्नेन गच्छतः क्वापि स्खलनं स्यान्महीयसः । हसन्त्यसाधवस्तत्र समादधति साधवः ॥ १७ ॥ संप्रदायप्रकाशार्थमपूर्वग्रन्थनिर्मितौ । साहसेन प्रवृत्तोहं नोपहास्यो बुधोत्तमैः ॥ १८ ॥ यदत्रेष्टं न लिखितं यद्विरुद्धमनीप्सितम् । त्रितयं तच हे सन्तः क्षम्यतां कृपया मयि ॥ १९ ॥ रागद्वेषविहीनैरतिसरलैः पेरगुणस्तवने । विद्वत्क विभी रसिकैः षड्भाषाचन्द्रिका सेव्या ॥ २० ॥ अपशब्दमहागते षड्भाषाकृष्णरात्रिषु । पतन्ति कविशार्दूलाः षड्भाषाचन्द्रिकां विना ॥ २१ ॥ १ ‘सार्वभौमः P., My. २ श्रीकौण्डुभट्टः R. ३ लक्ष्मीधराख्येण R. ४ रूपावलोक्यताम् M. ५ परगुणास्तवने M. ६ °महागर्त R. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy