________________
२८५
अपभ्रंशे धात्वादेशाः। हिं वा झझ्योः' इति वा हिं । पक्षे । होसन्ति । होसन्ते । होसइरे । मध्यमे । होसहि । अत्र 'हिर्थास्सिपोः' इति हि । पक्षे । होससि । होसहु । अत्र 'हु थध्वमोः' इति हुः । पक्षे । होसइद्धा । होसह । उत्तमे । होसउ । अत्र 'उ मिबिटोः' । इति उः । पक्षे । होसमि । होसहुँ । अत्र 'हुं मम हिडोः' इति हुँ । पक्षे । होसमो। होसम । होसम् । एवं हवसइ । हवसदि । वसहिं । हवसंति । इत्यादि ॥ लोटि॥
इदुदेत्स्वह्योः ॥३।४ । ५६॥
संस्कृते 'सवाभ्यां वामौ' 'से_पिच्च' आभ्यां सूत्राभ्यां लोण्मध्यमपुरुषैकवचनस्थाने विहितयोः खयोः इउए इति त्रय आदेशा भवन्ति । होइ । होउ । होए । हवइ । हवउ । हवए । अन्यत्र 'लटो हिं वा झझ्योः' इत्यादि सूत्रविहितादेशाः प्राकृतरूपता च । अन्येषु लकारेषु विशेषविधानाभावात् प्राकृतवद्रूपनिर्णयः। अनुक्तविशेषस्थले भाषान्तरोक्तमत्र कल्पनीयमिति केचित् । एवमजन्तानां हलन्तानां च धातूनां भावकर्मणोणिचि च रूपसिद्धिः प्राकृतवदेव कल्पनीया ॥
अथ धात्वादेशाः प्रदर्श्यन्ते । पर्याप्तौ भुवो बहुच्छः ॥३। ४ । ५८ ॥
'भुवो धातोः पर्याप्त्यर्थे बहुच्छ इत्यादेशः स्यात् । बहुच्छए । बहुच्छदि ॥
व्रजेर्वजः॥३।४। ५९ ॥
व्रज गतावित्यस्य धातोर्वञ इत्ययमादेशः स्यात् । वाइ। वादि। केषांचिद्रजतेर्दुल इति मतम् । वुलइ । वुलदि ।
ब्रूजो बुवः ।।३।४।६० ॥ १ होसमु । होसम T. २ खहि इत्येतयोः T. ३ स्युः T. ४ अपभ्रंशे भुवो T. ५ पर्याप्त्यर्थे वर्तमानस्य वहुच्छ T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org