SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २८६ षड्भाषाचन्द्रिकायां बञ् व्यक्तायां वाचीत्यस्य बुव इत्यादेशः स्यात् । बुवइ । बुवदि ।। क्रियेः किसु ॥३।४।६१ ॥ डुकृञ् करण इत्यस्य कर्मणि लड्डुत्तमपुरुषैकवचनस्य क्रिये इत्यस्य किसु इत्यादेशः स्यात् । किसु ।। क्रिये ॥ पस्सगण्हौ दृशिग्रहोः ॥३।४ । ६२॥ दृशिद प्रेक्षणे ग्रह उपादाने अनयोर्धात्वोर्यथासंख्यं पस्स गल इत्यादेशौ भवतः । पस्सइ । पस्सदि । गलइ । गहदि । दृशेर्णिहाणिहाआविति केचित् । णिहाइ । णिहाआइ । ग्रहेघे इति केचित् । घेइ । तक्षेश्छोल्लः ॥३।४।६३ ॥ तथू तनुकरण इत्यस्य च्छोल्ल इत्यादेशो भवति । च्छोल्लइ । च्छोल्लंदि । शेषाश्च धात्वादेशाः भावकर्मणोर्धात्वादेशाः प्रत्ययाश्च सर्वे प्राकृतवदवगन्तव्याः ॥ ओङ्कारादिममन्त्राणां सर्वेषामर्थरूपिणे । सर्वश्रेयोनिमित्ताय दक्षिणामूर्तये नमः ।। नवाक्षरमहामन्त्रवर्णादिश्लोकगर्भितम् । इमं प्रबन्धं विबुधः पठन् वासिद्धिमामुयात् ॥ एतन्निबन्धनिर्मित्या या परोपकृतिस्तया । वृषाकपायीरमणः प्रीयतां परमेश्वरः ॥ इति श्रीमदखिलविद्यापरिवारदक्षिणामूर्तिमहादेवप्रसादलब्धविद्यपूर्वोत्तरमीमांसाशब्दतर्कसाहित्यसार्वभौमचरकूरियज्ञेश्वरभट्टोपाध्यायतनयकोण्डभट्टोपाध्यायशिष्येण सर्वाम्बिकागर्भशुक्तिमुक्तामणिना सर्वविद्वत्कविसंमतेन दक्षिणामूर्तिमहादेवकिङ्करेण लक्ष्मीधरेण विरचितायां षड्भाषाचन्द्रिकायामपभ्रंशभाषाविभागः संपूर्णः ॥ १ स्तः T. २ तक्षाद्याश्चछोल्लादीन् T. ३ इत्यादयो धातवः च्छोल्ल इत्यादीनादेशानापद्यन्ते T. ४T. adds आदिग्रहणाद्देशीयेषु ये क्रियाशब्दा उपलभ्यन्ते ते उदाहार्याः T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy