________________
अपभ्रंशे तद्धितेषु विशेषाः। २८३ 'यावत्तावत्युम्महिम्मा वादेः' इत्यतः 'यावत्तावति' इत्यनुवर्तते । इयत् कियत् हत्येतयोः चकाराद् यावत्तावतोश्च परिमाणार्थे विहितो यो वतुप्प्रत्ययः तस्य वतुष्प्रत्ययस्य व्यादेर्यकारादेवकारादेश्व अवयवस्य एत्तुल एवड इत्यादेशौ डितौ भवतः । एत्तुलु । केत्तुल । जेत्तुलु । तेत्तुल । एवड्ड । केवड्ड । जेवडु । तेवडु । अत्र सर्वत्र 'खम्यत उत्' इत्युत्वम् ॥
त्वतलौ प्पणं ॥३।३।१६ ॥
भावे विहितौ यौ त्वतलौ प्रत्ययौ तौ पण इत्यादेशमापद्यते । पड्डुप्पणु । पटुत्वम् । पटुता । सुक्कप्पणु । शुक्लत्वम् । शुक्लता ॥ तव्यस्य एव्वइएप्पइएव्वाः ॥३।३।१७॥
तव्यप्रत्ययस्य एव्वइ एप्पइ एव्व इत्यादेशाः स्युः । जेएव्वइ । जेएप्पइ । जेएव्व । जेतव्य इत्यादि ॥
तृनो णअल ॥३।३।२२॥ सृन्प्रत्ययस्य णअल् स्यात् । होणउ । भविता । सुणउ । श्रोता ॥ छस्य युष्मदादेडारः ॥३।३। २३ ॥
युष्मदादेः परस्य छप्रत्ययस्य डित् आर इत्यादेशो भवति । तुम्हारु । अत्र 'अर्थपरे तो युष्मदि' इत्यातिदेशिकं यस्य तत्वं मस्य म्हत्वं च । अम्हारु । अस्मदीयः । अत्र 'स्वम्यत उत्' इत्युत्वम् ॥
अडडडुल्लाः स्वार्थिककलुक च ॥३।३ । २९ ॥
नाम्नः परतः अ इति अड उल्ल इत्येतौ डितौ च प्रत्यया भवन्ति तत्संनियोगेन स्वार्थिककप्रत्ययलोपश्च । अ । रामउ । अड । रुक्खड्डु । उल्ल । रुक्खुल्लु वृक्षः । एवमेते प्रत्ययाः सर्वत्र स्वार्थे संचारणीयाः ॥
इत्यपभ्रंशभाषायां सुबन्तविभागः ॥
१ इत्यनुवर्तते T. २ इत्येतौ T. ३ स्तः T. ४ इति त्रयः स्युः T. ५ युष्मदादिभ्यः T. ६ इति स्यात् T. ७ अपभ्रंशे नाम्नः T. ८ च डितौ T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org