________________
अपभ्रंशे अव्ययेषु विशेषाः। २८१ एवमेवे यस्य स्थाने एमइ इति भवति । एमइ लोगु । एवमेव लोकः ॥
समं समाणु ॥३।३। ४० ॥
सममित्यस्य स्थाने समाणु इति भवेति । नमाण समाणु । रामेण समम् ॥
किल किर ।।३।३। ४१ ॥ किलेत्यस्य स्थाने किर इति भवति । एम किर । एवं किल ॥ पग्गिमप्राइमप्राउप्राइव प्रायशः ॥ ३ । ३ । ४२ ॥
प्रायश इत्यस्य स्थाने पग्गिम प्राइम प्राउ प्राइव इति चत्वारः प्रयोज्याः । पग्गिम चबुलु । प्राइम चबुलु । प्राउ चबुलु । प्राइव चबुलु । प्रायश्चपलः ॥
दिवा दिवे ॥३।३।४३॥
दिवा इत्यस्य स्थाने दिवे इति प्रयोज्यम् । दिवे णिद्धा । दिवा निद्रा ॥
सह सहुं ॥३।३।४४॥ सहेत्यस्य स्थाने सहुमिति भवति । रामाण सहुं । रामेण सह ।। मा मं ॥३।३। ४५॥ मा इत्यस्य स्थाने ममिति भवति । मं एम । मैवम् ।। कुतः कउकहुतिहु ॥ ३ । ३ । ४६ ॥
कुत इत्यस्य स्थाने कउ कहु तिहु इति भवति । कउ गदु । कहु गदु । तिहु गदु । कुतो गतः ।।
अथवामनागहवइमणाउं ॥३।३। ४७॥ अथवा मनागेतयोः स्थाने यथाक्रम अहवइ मणाउं इत्येतो १ स्यात् T. २ स्यात् T. ३ रामस्य T. ४ T. adds रामेण समाणु । रामेण समानम् । ५ किर इति स्यात् T. ६ स्यात् T. ७ सहेत्यव्ययं सहुमिति स्यात् T. ८ मं स्यात् T. ९ त्रयः स्युः T.
३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org