________________
अपभ्रंशे हलन्ता नपुंसकलिङ्गाः । २७५ कहे । जहे । तहे । इदं शब्दस्य 'इदम आअः' इत्याआदेशे आआ । आअ । आआउ । आआओ । इत्यादि । सर्ववत् । एतच्छब्दस्य 'एतदेह एहो एहु स्त्रीनृनपि' इति खमोरेहादेशः । एहो। 'जश्शसोरेइ' । एइ । अन्यत्रान्त्यहलो लोपे तस्य दत्वे एदाण इत्यादि जाआवत् । अदस्शब्दस्य 'सुप्यदसोमुः' इत्यमुः । अमु । अमू । जश्शसोः 'ओइ अदसः' इति ओइ इत्यादेशः । ओइ । अमुएं । अमूएं । इत्यादि । ईकारान्त जोआवत् ॥
इति हलन्ताः स्त्रीलिङ्गाः ।
अथ हलन्ता नपुंसकलिङ्गाः ॥ किंशब्दस्य 'किं किं' इति खमोः किमादेशः अन्यत्र 'त्रतसि च किमो कः' इति कादेशे जश्शसोः 'इं नपि' इति इं। काई । कई । 'किं काइंकवणौ' इति काइंकवणादेशयोः । काई । कवणु । इत्यादि । पूर्ववत् । इदंशब्दस्य 'यत्तत् ढुं स्वमोः' इत्यधिकृत्य
इदम इमु नपुंसके ॥ ३।४ । ३२ ॥
इदं शब्दस्य खमोः पैरतः नपुंसके इमु ईत्यादेशो भवति । इमु 'सुससोः' इति सोर्लक् । 'इदम आअः' इति जश्शसोराः । अन्यत्र 'इदम इमः' इतीमादेशः। शेषं सर्ववत् । इम । एण । इमएं । इमहिं । इत्यादि । सर्वत्रादेशेप्येवं नेयम् । यत्तदोः 'यत्तत् द् ध्रु. वमोः' इति हूँ । @ । पक्षे बिन्दुरिति केचित् । जं । तं । 'इं नपि' इति इंच। जाई । ताइं । जई । तइं । शेषं पुंलिङ्गयत्तच्छब्दवत् । एतच्छब्दस्य 'एतदेह एहो एहु स्त्रीनृनपि' इति नपुंसकलिङ्गे एतदः एहु इत्यादेशः ।
१ 'जश्शसोरेइ' इत्यधिकृत्य 'ओइ अदसः' अदस् शब्दस्य ओइ इत्यादेशः स्यात् । ओइ । T. २ जायाशब्दवत् T. ३ This heading is dropped in P., My. ४ खमोः परयोः T. ५ परयोः T. ६ नपुंसकलिङ्गे T. ७ इत्यादेशः स्यात् T. ८ पूर्ववत् T. ९ T. adds स्यात् after it..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org