________________
२७२
षड्भाषाचन्द्रिकायां
लोप एव । अन्यत्र कप्रत्ययस्यावस्थानमेव । इति कुंडशब्दे कप्रत्ययस्यावस्थाने 'इं नपि' इत्यतः 'नपि' इत्यधिकृत्य
क्तान्तस्यात उं स्वमोः ।। ३ । ४ । २५ ॥
कान्तस्य तान्तस्य चातः खमोः परयोः उं भवति नपि नपुंसकलिङ्गे । कुंडउं । तान्ते भग्गउं । भनं । करउं कृतमित्यादि ॥ जसि 'उदो तौ जश्शसोः' इत्यतः ' जश्शसो:' इत्यधिकृत्य
इं नपि ।। ३ । ४ । २४ ॥
नपि नपुंसकलिङ्गे वर्तमानयोः जश्शसोरिं भवति । 'दिहौ सुपि ' इति दीर्घः । कुंडाई । नपुंसकलिङ्गे जश्शसोरदेतौ डिताविति केचित् । कुंडं । कुंडे | कुंडानि । अन्यत् सर्वे रामवत् । ' तद्व्यत्ययश्च' इति प्राकृतादिरूपता च । एवमन्येषामकारान्तनपुंसकलिङ्गानां रूपम् । इकारान्तनपुंसकलिङ्गो वारिशब्दः । वारि । वारिउं । वारिइं । इत्यादि । एवमजन्तनपुंसकलिङ्गे । सर्वत्र यथाप्रयोगं रूपाणि निर्णेतव्यानि शास्त्रे । विशेषविधानाभावादस्माभिर्न प्रपञ्चयन्ते || इत्यजन्ता नपुंसकलिङ्गाः ।
अथ हलन्ताः ।
किंशब्दे 'त्रतसि च किमो ल्कः' इति कादेशः । उत्वमोत्वं च । कु । को । क । का । के । इत्यादि सर्वे सर्ववत् । विशेषस्तु 'जैसे ' इत्यतः 'ङसे:' इत्यधिकृत्य
तु किमो डिह || ३ | ४ । २८ ।।
किंशब्दङसे : इह इति डिद्वा स्यात् । किह । पक्षे । 'जैसे' इति हैं । हं । काहं । ङसि तु 'तु किमो डिह' इत्यतः तु इत्यधिकृत्य १ इत्यधिकृत्य 'I'. २ नपुंसकलिङ्गे वर्तमानान्नाम्नः यः ककारस्तकारश्च तदन्त
and P. have सर्वत्र ५ ङसेही P., My .,
स्याकारस्य T. ३ My नपुंसकलिङ्गाः P.,.My . ७ सेह P., My., T. My., T. १० इत्यधिकृत्य T.
after रूपाणि. ४ इति T. ६ इत्यधिकृत्य T. ८ हां My., P., I. ९ कहां । काहां P.,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org