________________
२७१
अपभ्रंशे अजन्तनपुंसकलिङ्गाः। हुमाम्भ्य सः ॥३।४ । २२ ॥ 'स्त्रियाम्' इत्यनुवर्तते । स्त्रियां वर्तमानयोराम्भ्यसोः हुं भवति । जाईहुँ । जाइहुं । जाआहुं । जाअहुं । ङसि । जाआहे । जाअहे । 'ङमो लुक्' । जाआ जाअ । एवमीदन्तेपि ॥ डौ
स्त्रियां ॥३।४ । २० ॥ _ 'हिं भिस्सुपोः इत्यतः 'हिं' इत्यनुवर्तते । स्त्रियां वैर्तमानस्य डेहि भवति । जाईहिं । जाइहिं । जाहिं । जाअहिं । सुपि । 'हिं भिस्स्सुपोः' इति हिं । जाई हिं । जाइहिं । जाआहिं । जाअहिं । 'तव्यत्ययश्च' इति प्राकृतरूपता च । एवं शालामालाप्रभृतयः । सर्वनामशब्देषु 'त्वनुसाहावन्यथा सर्वो' इति सर्वशब्दस्य साहादेशे साहा इत्यादि जायावत् । विश्वादीनामपि जायावदेव । विशेषविधानाभावात् । एवमजन्तस्त्रीलिङ्गानां रुच्यादीनां ङीवद्रूपं नेयम् । माता पितृवत् अत्वं दत्वं च । मादा । मादी । इत्यादि ।
इत्यजन्ताः स्त्रीलिङ्गाः ॥
अथाजन्ता नपुंसकलिङ्गाः। कुंड सु इति स्थिते 'स्वम्यत उत्' इत्युत्वम् । 'सो क्' । कुंडु । अडडडुल्लाः स्वार्थिककलुक् च ।। ३।३ । २९ ॥
नाम्नः परे अ डड डुल्ल इत्येते प्रत्यया भवन्ति । तत्संनियोगेन खार्थिककप्रत्ययलोपश्च । इति यत्र अडडडुल्लानां प्राप्तिस्तत्र कप्रत्ययस्य
१ वर्तमानानाम्नः परयोराम् T. २ T. has आमि । जाआहं जाअहं । जाआ । जाअ। before it. ३ वर्तमानानाम्नः परं डिवचनं हिं भवति T. ४ My., and P. omit विश्वादीनामपि जायावदेव. ५ रूपं नेयम् T, ६ मातृशब्देपि पितृशब्दवत उत्वमोत्वं च । मादो । मादु । मादी। मादा इत्यादि T. ७ अथ नपुंसकलिङ्गाः T. ८ परतः अ इति डड डुल्ल इत्येतो च डितौ T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org