SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७० षड्भाषा चन्द्रिकायां विशेष उच्यते तस्यापि क्वचित् प्राकृतवच्छौरसेनीवच्च कार्य भवति । इत्यचः स्थाने अजन्तरस्य विधानादकारस्यात्वमुत्वं च । तकारस्य 'अचोस्तवोखौ -' इत्यादिना दकारः । पिदु । पिदो । इत्यादि । रामवत् । एवमन्येष्वजन्तेषु प्रयोगवशादजन्तरं कल्पनीयम् । इत्यजन्ताः पुंलिङ्गाः ॥ अथाजन्तस्त्रीलिङ्गाः प्रदर्श्यन्ते । जासु इति स्थिते 'सुससोः' इति सोलुक् । जाओ । 'दिहौ सुपि' इति ह्रखः । जाअ । आकारान्तेषु स्त्रियामित्वमिति केचित् । जाई । जाइ || 'स्त्रियां ङे:' इत्यतः 'स्त्रियाम्' इत्यनुवर्तमाने उदोतौ जश्शसोः ॥ ३ । ४ । २३ ॥ स्त्रियां वर्तमानयोर्जश्शसोः उत् ओत् इत्येतौ भवतः । जाआउ । जाआओ । जाईउ | जाईओ । एवं ह्रखान्तेप्युदाहार्यम् । सर्वत्र 'हो जसामन्त्रणे' इति हो च । दे जाअ । दे जाओ । दे जाइ | दे जाई । 'उदोतौ जश्शसोः ' । दे जाआउ । दे जाआओ । दे जाअहो । दे जाआहो । एवमीदन्तेपि । उभयत्र हवेप्युदाहार्यम् । अम । जाई । जाइ । जाआ । जाअ । अत्र 'सुससोः' इति लोपः । शसि । जाआउ । जाआओ । जाओ । जाईउ । जाईओ । जाई । एवमुभयत्र हखान्तेप्युदाहार्यम् । अकारान्तपक्षे 'टो णानुखारौ' इति णानुखारौ । इत्वपक्षे 'एं चेदुतः' इति णानुखारौ एं च । जाआण । जाअण । जाओं । जाअं । जाईण । जाइण । जाई । जाइ । जाईएं । जाइएं | मिसि । 'हिं भिस्सुपो:' इति हिं । जाईहिं । जाइहिं । जाहिं । जाहिं | सौ 'स्त्रियां ङे:' इत्यतः 'स्त्रियाम्' इत्यधिकृत्य ङसङस्योर्हे || ३ | ४ । २१ ॥ स्त्रियां ङङस्योर्हे भवति । जाईहे । जाइहे । जाआहे । जाहे || भ्यसि १ वक्ष्यते T २ इति च भवतः P., My . ३ एवं सर्वत्र T. ४ इत्यधिकृत्य T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy