________________
अपभ्रंशे अजन्तपुंलिङ्गाः।
२६७ 'तद्वयत्ययश्च' इति सर्वासु विभक्तिषु प्राकृतादिरूपता च । एवमकारान्तानां वृक्षादीनां रूपमुन्नेयम् । अथाकारान्तेषु विशेषाः प्रदर्श्यन्ते । लोक । काक । मख । विशिख । सुत । चूत । नाथ । शतपथ । कोप । ताप । रेफ। कफ । इत्यादिषु 'प्रायोपभ्रंशेचोच्' इत्यतः 'अपभ्रंशे' इत्यधिकृत्य ॥
अचोस्तैवोखौ कखतथपफा गघदधवभान् ॥ ३।३।२॥
अचः परे असंयुक्ता अनादौ वर्तमानाः कादयो यथासंख्यमपभ्रंशे गादीनापद्यन्ते प्रायः । 'स्वम्यत उत्' इत्युत्वं च । लोगु । कागु । मधु । विसिघु । सुदु । चूदु । णाधु । सदबधु । कोबु । ताबु । रेभु । कभु । इत्यादि । अन्यत् सर्व रामवत् । एवं सर्वत्र । शिष्टं पूर्ववदुन्नेयम् ॥
म्हो म्भं ॥३।३।४॥
म्ह इत्ययं माक्रान्तभकारमापद्यते । अत्र 'म्हो' इति 'इमष्म-' इत्यादिना प्राकृतलक्षणविहितो म्हो गृह्यते । तस्यायं विधिः । ब्राह्मणः। बम्भणु । एवमश्मन् काश्मीरेत्यादिष्वपि म्हस्य म्भ एव । तथा च अम्भु कम्भूरु इत्यादि सिद्धम् ।। 'तु मो वम्' इत्यतः 'तु' इत्यनुवर्तमाने
रो लुकमधः ॥३।३।५॥ अधो वर्तमानो रेफो लकं त्वापद्यते । पिउ । प्रिउ । कचिदभूतोपि ॥३।३।६॥
'रः' इत्यनुवर्तते । क्वचिदविद्यमानोपि रेफो भवति । व्यासः । वासुः । विषण्ण वर्त्म उक्त एषु
उन्नविच्छवुत्ता विषण्णवर्मोक्ताः॥३।३ । ५३ ॥ . विषण्णादीनां त्रयाणां यथासंख्यमुन्नादय आदेशाः स्युः ।
1 रूपं नेयम् P., My. २ इत्यधिकृत्य T. ३ 'स्तावखौ P., My. ४ °नाप्नुवन्ति P., My. ५ इत्यत उत्वं च My. ६ has लोकः । लोगु । काकः । कागु and so on. ७ Before this T. adds विशेषमात्रमुच्यते. ८ T. has अपभ्रंशे मकाराकान्त° T. ९T. has संस्कृते तदसंभवात् in place of तस्यायं विधिः. १० लोपं T. ११ उन्न विच्छ वुत्त इति यथासंख्यं भवति I'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org