________________
.२६६
षड्भाषाचन्द्रिकायां
ए भिसि || ३ | ४ । ४ ॥
भिसि परे अत एत्वं वा स्यात् रामेहिं । रामाहिं । रामहिं । अत्र 'दिहौ सुपि' इति दीर्घः । भिसो डित्वमिति केचित् । रामे । राम || ङसि इति स्थिते
ङसेर्हेहु ।। ३ । ४ । ७॥
'अतः' इत्यनुवर्तमानं पञ्चम्यन्ततया विपरिणम्यते । अपभ्रंशेकारात् परस्य ङसेर्हे हु इत्यादेशौ भवतः । रामहे । रामहु | रामा | रामाहु । अत्र 'दिहौ सुपि' इति दीर्घः ॥ राम भ्यस् इति स्थिते भ्यसो हुं ॥ ३ । ४ ॥ ८॥
अपभ्रंशेकारात् परस्य भ्यसो हुमित्यादेशो भवति । रामहुं । रामाहुं || राम ङसिति स्थिते
सुस्सुहो ङः ॥ ३ । ४ । ९॥
अतः परस्यः ङसः सु स्सु हो इति त्रय आदेशा भवन्ति । रामसु । रामासु । रामस्तु । रामहो । रामाहो ||
ङमो लुक् || ३ | ४ । १६ ॥
ङमः षष्ठीविभक्तेः प्रायो लुग्भवति । रामा । राम || राम आम् इति स्थिते
आमो हं ॥। ३ । ४ । १० ॥
अतः परस्यामो हमिति भवति । रामहं । रामाहं । 'ङमो लुक्' । राम | रामा ॥ रामङि इति स्थिते 'ए मिसि' इत्यतः 'ए' इत्यधिकृत्य 'अतः' इति च ॥
ङिनेच्च || ३ | ४ | ६॥
अतो ङिना सहेत् स्याच्चकारादेश्च । रामि । रामे । सुपि 'हिंभिस् - सुपो:' इति हिं । रामहिं । सुपः सुरेवेति केचित् । रामसु । रामासु ।
१ वर्तते T. २ drops अपभ्रंशे. परस्य &c.
४ 'मित्यादेशः स्यात् T. drop this line. ७ स्यात्T.
Jain Education International
३ T. has ‘अतः’ इत्यनुवर्तते । अतः ५ लुक् स्यात् T. ६ P. and My. ८ लुकि T. ९ इत्यधिकृत्य T.
For Private & Personal Use Only
www.jainelibrary.org