SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ यमिवर्यावलिखान्तद्योतमानात्ममूर्तये । वेदान्तपक्षपाताय दक्षिणामूर्तये नमः ॥ ___ अथ चूलिकापैशाची। राम सु इति स्थिते रो लस्तु चूलिकापैशाच्याम् ॥३।२। ६४ ॥ चूलिकापैशाच्यां रेफस्य लो वा स्यात् । रामो । लामो। इत्यादि । शेषं पैशाचीवत् ।। गजडदबघझढधमां कचटतपखछठथफालू ॥३।२।६५॥ चूलिकापैशाच्यां गादीनां यथासंख्यं कादयो भवन्ति । लित्वान्नित्यम् । मार्गणः । मक्कनो । नगः । नको । मेघः । मेखो । व्याघ्रः । वखो । राजा । लाचा । जीमूतः । चीमूतो। निर्झरः । निच्छलो । झरः । छलो । तडाकं । तटाकं । डमरुकः । टमलुको । गाढं । काढं । ढका । ठक्का । मदनः । मतनो । दामोदरः । तामोतलो । मधुरः । मथुलो । धारा । थाला । बाडवः । पाटपो । बॉलः । पालो । रभसः । लफसो । रंभा । लंफा । भवः । फवो । इत्यादि । कचिल्लाक्षणिकस्यापि । प्रतिमा । पडिमा। पटिमा । दंष्ट्रा । दाढा । ताढा ॥ अन्येषामादियुजि न ॥३।२ । ६६ ॥ चूलिकापैशाच्यामन्येषामाचार्याणां मते गजडदबघझढधभामादौ वर्तमानानां युजिधातौ चकारादयो न भवन्ति । गती । घनो । जनो। झल्लरी । इत्यायुह्यम् । युजि । नियोजितं ॥ शेषं प्राग्वत् ॥३।२ । ६७॥ __ चूलिकापैशाच्यां 'रो लस्तु-' इत्याद्यारभ्य यदुक्तं ततोन्यत् प्राग्वत् पैशाचीवत् । तेन 'नो णनोः पैशाच्याम्' इत्यारभ्य 'न प्रायोलुकू-' १ T. has वासवादि &c. in place of this couplet. २ लकारो T. ३ बालकः पालको P., My. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy