SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ पैशाच्या तिङन्तप्रक्रिया । २६१ तडिजेचः ॥३।२। ५६ ॥ पैशाच्या तिप्तादेशयोरिजेचोस्तकारो भवति । दटोपवादः । भोति । भवति । भवते । इत्यादि । शेषं प्राकृतवत् ॥ ललुटोः एय्य एव भविष्यति ॥३।२। ५७ ॥ भविष्यदर्थे विहितयोरिजेचोः स्थाने एय्यादेश एव भवति न तु शौरसेन्यामित्यातिदेशिकः सिः । भोएय्य । भवेय्य । भोस्सिंति । भोस्सिमि । इत्यादि । अन्येषु लकारेषु प्राकृतवच्छारैसेनीवत् सर्वे विधयो द्रष्टव्याः ॥ यकि इय्यो यकः ॥३।२। ५८॥ यक्प्रत्ययस्य इय्य इत्ययमादेशो भवति पैशाच्याम् । ईअइज्जयोरातिदेशिकयोरपवादः । भोइय्यति । भोइय्यते । भविय्यति । भविय्यते । इत्यादि ॥ कृजो डीरः ॥३।२ । ५९ ॥ 'यकः' इत्यनुवर्तते । कृञो यकः स्थाने पैशाच्यामीर इत्यादेशो डित् स्यात् । कीरति । कीरते। इत्यादि । अन्येषु लकारेषु णिचि भावकर्मणोश्च सर्वे विधयः प्राकृतवच्छौरसेनीवद्रष्टव्याः ॥ इति षड्भाषाचन्द्रिकायां पैशाचीभाषा समाप्ता ॥ १ °स्तकारागमो P., My. २ T. has होएय्य । होवेय्य । होस्सिति । होस्सिमि। ३ पैशाचीभाषाप्रक्रिया T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy