________________
पैशाच्यां सुबन्तविभागः।
२५९ वेसो । शठः । सढो । पोषः । पोसो । इत्यादि । इदं सूत्रं 'न प्रायोलुक्कादिच्छल्पट्छम्यन्तसूत्रोक्तम्' इत्यस्य सूत्रस्य सत्वबाधकस्य बाधनार्थम् । ननु 'न प्रायोलुक्कादि-'सूत्रबाधनार्थमिदं सूत्रमिति यदुक्तं तदसङ्गतम् । विचारासहत्वात्। तथाहि । 'प्रायो लुक्कग-' इति सूत्रमारभ्य 'छलषट्छमीसुधाशाबसप्तवर्णे' इति सूत्रान्तानि यानि सूत्राणि तेषां प्राकृतभाषाविधायकानां पैशाच्यां प्रसक्तौ सत्यां 'न प्रायोलुक्कादिछल्पट्छम्यन्तसूत्रोक्तम्' इति निषेधसूत्रेण भवितव्यम् । न च तेषां प्राकृतविधायकानां पैशाच्यां प्रसक्तिरस्ति । न च शेषं प्राकृतवदित्यतिदेशात् प्रसक्तिर्भविष्यति इति वाच्यम् । तत्सूत्रस्य पैशाच्यामभावात् । परंतु 'शेषं शौरसेनीवत्' इत्येवास्ति । न च 'शेषं शौरसेनीवत्' इत्यतिदेशादेव प्राकृतानामप्यत्र प्रसक्तिर्भविष्यति । शौरसेन्यां 'शेषं प्राकृतवत्' इत्यतिदेशस्य दृष्टत्वादतिदिष्टातिदेशमर्यादया प्राकृतानामप्यत्र संभवादिति वाच्यम् । अतिदिष्टातिदेशस्य अदृष्टचरत्वात् । तस्माद्बाधकबाधनार्थमित्यसंगतमुक्तमिति चेत् । अत्रोच्यते । यदुक्तं प्राकृतानामत्र प्रसक्तिर्नास्ति इति तदसत् । अतिदिष्टातिदेशमर्यादया प्र. सक्तेः । न चातिदिष्टातिदेशस्यादृष्टचरत्वम् । अतिदेशतः प्राप्तानां श्येनयागधर्माणामघनामककर्मण्यतिदेशस्य दृष्टत्वात् । अग्नीषोमीयधर्माणां सान्नाय्यातिदेशतः प्राप्तानां सवनीयादावतिदेशस्य दृष्टत्वाच्च । तस्माद्बाधकबाधनार्थमिति सम्यगुक्तम् ॥ एक । भाग । कुच । गज । इत्यादौ 'प्रायोलुक्-' इति कादिलोपे प्राप्ते
न प्रायोलुक्कादिच्छलपट्छम्यन्तसूत्रोक्तम् ।।३।२।६३॥
'प्रायो लुक्कग-' इति सूत्रमारभ्य 'छलषट्छम्यन्त' सूत्रपर्यन्तं ये विधयः प्राकृते ते पैशाच्यां न भवन्ति । इति कादीनां लोपाद्यपवादः। एको । भागो । कुचो । गजो । इत्यादि । एवं सर्वविध्यभावोनुसंधेयः ।
१ तत्रोच्यते T. २ लोपाधभावः T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org