________________
२५४
षड्भाषाचन्द्रिकायां च्छोनादौ श्वः ॥३।२ । ३२ ॥
अनादौ वर्तमानस्य लोक्षणिकस्यालाक्षणिकस्य च च्छस्य शंकारसहितचकारो भवति । पिच्छिलः । पिच्छिले । लाक्षणिकस्य । आपन्नवत्सलः। आवण्णवश्चले । आवण्णवच्छळो । वृक्षः । वच्छो । वृश्चे । इत्यागृह्यम् । 'अनादौ' इति किम् । छागः । छाए।
क्षः कः॥३।२। ३३॥ 'अनादौ' इत्यनुवर्तते । मागध्यामनादौ वर्तमानस्य क्षस्य जिह्वामूलीयाक्रान्तककारो भवति । यक्षः । य के । राक्षसः । ला कशे । वृक्षः। लुके । 'अनादौ' इति किम् । क्षयः । खए ।
सः सषोः संयोगेग्रीष्मे ॥ ३।२ । ३५॥ 'अनादौ' इत्यनुवर्तते । अनादिमयोः “संयोगे वर्तमानयोः सकारषकारयोः मागध्यां सकारो भवति अग्रीष्मे । ग्रीष्मे तु न भवति । ऊर्ध्वलोपाद्यपवादः । प्रशस्तः । प्रशस्ते । हस्तः । हस्ते । विस्मयः । विस्सए । शुष्कः । शुस्के । शष्पकवलः । शस्यकवळे। इत्याह्यम् । 'अग्रीष्मे' इति किम् । ग्रीष्मः । गिहो ॥ धन्य । सामान्य । गण्य । प्राज्ञ । धनञ्जय । इत्यादिषु
न्यण्यज्ञञ्जां अर् ॥३।३। ३७ ॥
मागध्यां न्यण्यज्ञञ्ज इत्येतेषां अकारो रिद् भवति । रित्वाद् द्वित्वम् । धो । सामने । गजे । पले । धणजए । इत्याद्यूह्यम् ।। समाज । जय । हृद्य । इत्यादिषु
जयद्यां यः॥३।२। ३९ ॥ जकारयकारद्यकाराणां यकारो भवति । समाजः । समाये । जयः ।
१ मागध्यामनादौ T. २ छकारस्य for लाक्ष-च्छस्य T. ३ शकाराकान्तश्च° T. ४ अनादौ वर्तमानस्य क्षस्य मागध्यां P., My. ५ मागध्यां संयोगे° T. which drops मागध्यां before सकारो. ६T. drops तु. ७ My. and P. drop मागध्यां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org