________________
मागध्यां तिङन्तप्रक्रिया । ३५५ यये । हृद्यः । हिय्ये । विद्याधरः । विय्याहरे । दुर्जनः । दुय्यणे । जनपदः । यणवए । अनवद्यः । अणवय्ये । इत्यादि । यस्य यकारविधानं 'आदेञ्जः' इत्यस्य बाधनार्थम् ॥ प्रकोष्ठ । सुष्ठु । कृतभट्ट । इत्यादिषु
ष्ठट्टौ स्थम् ॥३।२।४० ॥
ष्ठकारो द्विरुक्तटकारश्च सकाराकान्तथकारः स्यात् । पवस्थे । पओस्थे । प्रकोष्ठः । सुष्ठुकृतः । सुस्थुकए । भट्टः । भस्थे । भस्थालए । इत्यादि ॥
स्थौँ स्तं ॥३।२।४१ ॥ स्थर्थ इत्येतौ सकाराकान्ततकारमापद्यते । उपस्थितः । उपस्तिदे । अत्र 'शौरसेनीवत्' इत्यतिदेशात्तस्य दः । अर्थः । अस्ते । पार्थवाहः । शस्तवाहे । इत्यादि॥ इकारान्तमारभ्य हलन्तान्तं लिङ्गत्रयेपि शौरसेनीवत् प्राकृतवच्च । अस्मच्छब्दे विशेषः ॥ हगेहंवयमोः ॥३।२ । ३१ ॥
अहं वयं एतयोः स्थाने मागध्यां हगे इति भवति । हगे शुहमणुहोमि । अहं सुखमनुभवामि । हगे शंवत्ता । वयं संप्राप्ताः । अव्ययादिषु शौरसेनीवत् प्राकृतवच्च ॥
इति मागध्यां सुबन्तविभागः ॥
अथ तिङन्तप्रक्रिया । भू इतिस्थिते । 'शौरसेनीवत्' इत्यतिदेशात् भुवो हकारस्य भकारः । भोदि । इत्यादि । शौरसेनीवत् । ललुटोः । 'भविष्यति स्सि' इति स्सौसति 'स्रोः श्लौ' इति सकारस्य शैकारः । भोश्शिदि । शेषंपूर्ववत् । विशेषस्तु 'क्षकः' इत्यनुवर्तमाने
१ 'भुवो हः' इति वा भस्य हत्वम् T. २ होदि T. ३ शः T. ४ होशिशदि T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org