________________
श्रीरस्तु | शिष्टार्यशुकयोग्यादिमुनिवृन्दावृताये | कृतस्वीयारिशिक्षाय दक्षिणामूर्तये नमः ॥ अथ मागधीभाषा निरूप्यते ।
राम सु इति स्थिते 'मागध्यां शौरसेनीवत्' इत्यतः 'मागध्याम्' इत्यधिकृत्य
स्रोः श्लौ ।। ३ । २ । ३६ ॥
:
स्रोः सकाररेफयोः मागध्यां शकारलकारौ यथाक्रमं भवतः । इति रेफस्य लकारे सति
सौ पुंखेलतः ॥ ३ । २ । ३० ।।
मोगध्यां पुंलिङ्गे वर्तमानस्य अकारस्य एकारो लित् सौपरे । 'शेषं प्राकृतवत्' इत्यतिदेशात् सोर्लुकि लामे । इत उत्तरं षष्ठ्येकवचनपर्यन्तं प्राकृतवत् । लाम ङस् इति स्थिते
त्वाड्डाहो डेसः ॥ ३ । २ । २८ ।।
'मागध्याम्' इत्यनुवर्तते । मागध्यामवर्णात् परस्य ङसः डित् आह इत्यादेशस्तु भवति । लामाह । पक्षे । ' स्रोः लौ' इति सकारस्य शकारः । लामश्श ||
आमो डाह || ३ । २ । २९ ॥
पूर्वसूत्रात् 'आत्' इत्यनुवर्तते । 'तु' इति च । अवर्णात् परस्य मो मागध्यामाहादेशो ङिद्वा स्यात् । ङित्त्वात् पूर्वस्य सानुनासिक उच्चारः । लामाह । पक्षे । लामाणं । लामाण | 'तद्वयत्ययश्च' इति सूत्रात् प्राकृतेप्याहङ् । 'मागध्यां शौरसेनीवत्' इत्यतिदेशात् 'अतो ङसेर्दुदोश' इति दुदो च । लामादु । लामादो । अन्यत् सर्वं शौरसेनीवद् द्रष्टव्यम् ॥ अथाकारान्तेषु केषुचिद्विशेषाः प्रदर्श्यन्ते ।
१ T. drops सति. २ पुंलिङ्गे वर्तमानस्य मागध्यामेकारो My ., P. ३ भवति T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org