________________
शौरसेन्यां सुबन्तविभागः ।
भवताम् ।। ३ । २ । २३ ॥
'आमन्त्रे' इति निवृत्तम् । 'मः' इत्यनुवर्तते । 'नः' इति च । भवन् भगवन् मघवन् कृतवन् इत्येवमादीनां दृश्यमानस्य नकारस्य सौ परे मकारो भवति । किं भवं हिअए णंदेइ । किं भवान् हृदये नन्दति । पज्जळिदो भअवं हुदासणो । प्रज्वलितो भगवान् हुताशनः । महवं पाअसासणो । मघवान् पाकशासनः । कअवं । कृतवान् । हलन्तेषु स्त्रीने पुंसकयोर्विशेषो नास्ति । युष्मदस्मच्छब्दावपि प्राकृतवदेव ॥
अथाव्ययेषु विशेषाः प्रदर्श्यन्ते । तावत् । ' दस्तस्य—' इत्यनुवर्तते ।
तावति खोर्वा ॥ ३ । २।३॥
तावच्छब्दे खोस्तस्य दो वा स्यात् । 'अखौ' इत्यस्यापवादः । दाव । ताव । कथं । 'थो धः' इति वा धत्वम् । कथं । कहं || चोर्हस्य || ३ | २|५॥
२४९
'थो धः' इत्यतः 'धः' इत्यनुवर्तते । इहशब्दे हकारस्य ' थध्वमित्थाचौ' इति विहितहकारस्य च धो वा स्यात् । इध । इह ॥ इदानीं शब्दस्य
इदानीमोल्दाणिं ॥ ३ । २ । १२ ॥
शौरसेन्यामिदानींशब्दस्य दाणिमिति लिद् भवति । दाणिं । ' तद्वयत्ययश्च' इति सूत्रात् प्राकृतेपि ॥
तस्मात्ता ।। ३ । २ । १३ ॥
तस्माच्छब्दस्य शौरसेन्यां ता इति भवति । ता ॥ क्त्वा प्रत्ययस्य इअदूणौ क्त्वः ।। ३ । २ । १० ॥
' शौरसेन्याम्' इत्यनुवर्तते । क्त्वाप्रत्ययस्य शौरसेन्यां इअ दूण
२ शौरसेन्यां तस्माच्छन्दः ता इति
१ ॰नपुंसकलिङ्गयोरविशेषः P., My. आपद्यते T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org