________________
२४८
षड्भाषाचन्द्रिकायां तकारस्य कैचिल्लक्ष्यानुरोधेन दकारो भवति । णिच्छिन्दो महन्धो । निश्चिन्तो महान् । आर्यपर्याय इत्यादिषु 'तावति खोर्वा' इत्यतः 'वा' इत्यनुवर्तमाने
ोय्यः ॥३।२।८॥
र्य इत्यस्य स्थाने य्य इति वा स्यात् । जत्वापवादः । अय्यो । अज्जो । पय्याओ । पज्जाओ।
इत्यजन्ताः पुंलिङ्गाः। स्त्रीलिङ्गेषु कथाप्रथा इत्यादिषु थस्य हत्वे प्राप्ते थो धः ॥३।२।४॥ 'वा' इत्यनुवर्तते । 'शौरसेन्याम्' इति च । शौरसेन्यां थस्य धैः स्याद्वा । कथा । कहा । प्रथा । पहा । इत्यादि । मातृशब्दे तस्य दः। मादा । इत्यादि । शेषं प्राकृतवत् ॥
अथाजन्तेषु नपुंसकलिङ्गेषु कुण्डप्रभृतिषु शौरसेनी अकारान्तपुंलिङ्गवदेव । अन्तःपुरे । 'संयोगेधः कचित्' इत्यनेन संयुक्तस्याधो वर्तमानस्य तस्य प्रयोगानुसारेण दः स्यादित्युक्तत्वात्तस्य दत्वम् । अंदेउरं ।।
अथ हलन्तेषु विशेष उच्यते । नकारान्तेष्विन्नन्तेषु आत् सावामन्त्रइनो नः ॥३।२।२१॥
आमन्त्रे सौ परे इनो नकारस्यात्वं वा स्यात् । दे करिआ। पक्षे । दे करी । दे कंचुइआ । दे कंचुई ॥
मः ॥३।२। २२ ।। ___'आत्' इति व्यतिरिक्तं पूर्वसूत्रं सर्वमनुवर्तते । आमन्त्रे सौ परे नकारस्य मकारो वा स्यात् । दे राअं । दे राअ । दे सुकम्मं । दे सुकम्म ॥ तकारान्तेषु
१ दकारो भवति क्वचिल्लक्ष्यानुसारेण । T. २ इत्यादेशो वा भवति T. ३ धो वा स्यात् T. ४ इत्युक्तत्वात् प्रयोगानुसारेण स्तोरपि तस्य दः । My., P. ५ °स्य वा त्वम् P., My.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org