________________
श्रीरस्तु। मतिमुद्रापरश्वेण जानुभिः सक्तबाहवे ।
भुजङ्गबद्धकक्षाय दक्षिणामूर्तये नमः ॥ अथ शौरसेन्यादयो भाषाः प्रदर्श्यन्ते । राम इति स्थिते प्रथमैकवचनमारभ्य पैश्चम्येकवचनपर्यन्तं प्राकृतवदेव । पञ्चम्येकवचने तु राम ङसि इति स्थिते 'दस्तस्य शौरसेन्यामखावचोस्तोः' इत्यतः 'शौरसेन्याम्' इत्यधिकृत्य
अतो उसेर्तुदोश् ॥३।२ । २०॥
शौरसेन्यामकारात् परस्य डसेर्दु दो इत्येतौ शितौ भवतः । रामाद् । रामादो । अत्र शित्वाद् दीर्घः ॥ शेषं प्राकृतवत् । एवं घटादीनां सर्वनाम्नां च प्राकृतवत् । पूर्वशब्दस्य तु ।
पूर्वस्य पुरवः ॥३।२।९॥
पूर्वशब्दस्य पुरव इत्यादेशः स्यात् । पुरवो। पुरवे। इत्यादि । पितृशब्दे तलोपे प्राप्ते
दस्तस्य शौरसेन्यामखावचोस्तोः ॥३।२।१॥
शौरसेन्यां भाषायामचः परस्यासंयुक्तास्यानादौ वर्तमानस्य तकारस्य दकारः स्यात् । पिदा । पिदरो । इत्यादि । प्राकृतवदेव । सर्वत्रैवं भूतस्य तस्य द एव । 'अखौ' इति किम् । तरुणो । 'अचः' इति किम् । कंतो। 'अस्तोः' इति किम् । मत्तो। अजउत्तो ॥
संयोगे धः कचित् ॥३।२।२॥ 'शौरसेन्याम्' अनुवर्तते । 'दस्तस्य' इति च । पूर्वसूत्रेणास्तोरित्यपोदितेपि क्वचिद्विशेषः । उच्चारिते शौरसेन्यां संयोगे धो वर्तमानस्य
१ प्रथमाविभक्तिमारभ्य T. २ तृतीयाविभक्त्यन्तं I'. ३ पूर्वस्य दीर्घः T. ४ पूर्वस्य तु T. ५ इत्यादेशो भवति T. ६ T. has before it अत्र 'तावति खोर्वा' इत्यतः 'वा' इत्यनुवर्तते । ७ After this T. has शेषं प्राकृतवत् । ८ परस्यानादौ वर्तमानस्यासंयुक्तस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org