SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४२ षड्भाषाचन्द्रिकायां रोमन्थते मधातोर्णिजन्तस्य ओग्गाल वग्गाल इति वा स्याताम् । ओग्गालइ । वग्गालइ । पक्षे । रोमन्धेइ ।। प्लावरोंबालपव्वालौ ॥२।४।१०८॥ प्लावयतेः रोंबाल पव्वाल इति वा भवतः । रोंबालइ । पव्वालइ । पक्षे । पावे ॥ मिश्रेर्मीसाळमेळवौ ॥ २।४।१०९ ॥ मिश्रयतेर्मीसाळ मेळव इति वा भवतः । मीसाळइ । मेळवइ । पक्षे । मीसेइ । अत्र 'शोलृप्त-'इति दीर्घः ॥ छादेमणुमोबालढकपव्वालसण्णुमाः॥२।४।११० ॥ छादयतेः णूम णुम उंबाल ढक्कपव्वाल सण्णुम इति षडादेशा वा स्युः । णूमइ । णुमइ । उंबालइ । ढकइ । पव्वालइ । सण्णुमइ । पक्षे । छाएइ ॥ अच्चुकवोको विज्ञापेः॥२।४ । १११ ॥ विज्ञापेः अच्चुक्क वोक इति वा भवतः । अच्चुक्कइ । वोक्कइ । पक्षे । विण्णावेइ ॥ परिवाडो घटेः ॥२ । ४ । ११२ ॥ घटयतेः परिवाडो वा स्यात् । परिवाडइ । पक्षे घडेइ ॥ दृशेविदक्खवदंसाः ॥२ । ४ । ११३ ॥ दृशेर्णिजन्तस्य दाव दक्खव दंस इति त्रय आदेशा वा स्युः । दावइ । दक्खइ । दंसइ । पक्षे । दंसेइ ॥ प्रस्थापेः पेठवडवौ ॥ २ । ४ । ११४ ॥ प्रस्थापेर्णिजन्तस्य पेट्ठव पेंडव इत्येतौ वा भवतः । पेट्ठवइ । पेंडवइ । पक्षे । पत्थावेइ । अत्र 'कग-'इति सलोपद्वित्वे ॥ यापेर्जवः ॥२।४ । ११५ ॥ यापयते व इत्यादेशो वा स्यात् । जवइ । पक्षे । जावेइ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy