________________
२४१
तिङन्तप्रक्रिया। गुलुगुंछोत्थंघोबोल्लोल्लोला उन्नमः ॥२।४ । १००॥ नमतेरुत्पूर्वस्य णिजन्तस्य गुलुगुंछ उत्थंघ उव्वेल्ल उल्लोल इति चत्वार आदेशा वा स्युः । गुलुगुंछइ । उत्थंघइ । उवेल्लइ । उल्लोलइ । पक्षे । उण्णवेइ । अत्र 'नमोद्विजरुदां वः' इत्यन्त्यस्य वत्वम् ॥
प्रकाशेणुव्वः ॥२।४ । १०१॥
प्रकाशतेर्णिजन्तस्य णुव्व इति वा स्यात् । गुन्वइ । पक्षे । पआसेइ ॥ णिहुवः कमेः॥२।४।१०२॥
कमेः खार्थे णिजन्तस्य णिहुव इत्यादेशो वा स्यात् । णिहुवइ । पक्षे । कामेइ ॥
नशेविप्पगालणासवपलावहारवविउडाः ॥२।४।१०३ ॥
नाशयतेर्णिजन्तस्य विप्पगाल णासव पलाव हारव विउड इति पञ्चादेशा वा स्युः । विप्पगालइ । णासवइ । पलावइ । हारवइ । विउडइ । पक्षे । णासेइ ।।
वल आरोपेः ॥२।४ । १०४ ॥ णिजन्तस्यारोपेर्वल इति वा स्यात् । वलइ । पक्षे । आरोवेइ ॥ विरेचेरोल्लुड्डोल्लुड्डपल्हत्थाः ॥२।४।१०५ ॥
विपूर्वस्य रेचयतेर्णिजन्तस्य ओल्लुड्ड उल्लुड्ड पल्हत्थ इति त्रय आदेशा वा भवन्ति । ओल्लुड्डइ । उल्लुड्डइ । पल्हत्थइ । पक्षे । विरेएइ ॥
कम्पेर्विच्छोळः ॥२।४।१०६ ॥
कम्पयतेर्णिजन्तस्य विच्छोळ इति वा स्यात् । विच्छोळइ । पक्षे । कम्पेइ ॥
रोमन्थेरोग्गालवग्गालौ ।। २ । ४ । १०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org