________________
२४० .
षड्भाषाचन्द्रिकायां निवृपतोणिहोडो वा ॥२।४।९३ ॥
इत उत्तरं यावद्धात्वादेशं 'णिच्' अनुवर्तते । निपूर्वस्य वृत्रः पतेश्च णिहोड इत्यादेशो वा स्यात् । णिहोडइ । निवारयति पातयति वा । पक्षे । णिवारेइ । पाडेइ । अत्र प्रत्यादिपाठात् तस्य डत्वम् ॥
धवलोद्घटोमोग्गौ ॥२।४ । ९४ ॥
'वा' इत्यनुवर्तते । धवलयते मधातोरुत्पूर्वस्य घटयतेश्च णिजन्तस्य यथासंख्यं दुमउग्ग इत्यादेशौ वा भवतः । दुमइ । उग्गइ । पक्षे । धवळइ । उग्घाडेइ । अत्र 'टो डः' इति टस्य डत्वम् ।
भ्रमवेष्ट्योस्तालिअंटपरिआलौ ॥२।४। ९५॥
भ्रमयतिवेष्टयत्योर्णिजन्तयोर्यथाक्रमं तालिअंट परिआल इत्येतावादेशौ वा भवतः । तालिअंटइ । पक्षे । भमाडइ । अत्र 'भ्रमेराड:' इत्याडः । भामइ । वेष्टेः परिआलइ । पक्षे । वेडइ । अत्र 'वेष्टेः' इत्यन्त्यस्य डः॥
राको रञ्जयतेः ॥२।४ । ९६ ॥ रञ्जयतेर्णिजन्तस्य राव इत्यादेशो वा स्यात् । रावेइ । पक्षे । रंजेइ ॥
तुलिडोल्योरोहामरखोलौ ॥२।४ । ९७ ॥ णिजन्तस्य तुलयतेर्दोलयतेश्च नामधातोर्यथासंख्यं ओहाम रखोल इत्येतौ वा भवतः । ओहामइ । रंखोलइ । पक्षे । तुलइ । दोलइ ।।
आसंघः संभावः ॥२ । ४ । ९८ ॥
संभावयतेरासंघ इति वा स्यात् । आसंघइ । पक्षे । संभावेइ । संभावयति ॥
अपैरल्लिवपणामचञ्चुप्पाः ॥२।४ । ९९ ।। णिजन्तस्यार्पयतेः अल्लिव । पणाम । चचुप्प इति त्रय आदेशा वा भवन्ति । अल्लिवइ । पणामइ । चचुप्पइ । पक्षे । अप्पेइ । ओप्पेइ । अत्र 'त्वौ' इत्यादेरत ओत्वं वा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org