________________
तिङन्तप्रक्रिया।
२३९ 'उवर्णस्यावः' । 'अदेल्लुक्यात्-'इत्यात्वम् । बावइ । बावेइ । बावावइ । बावावेइ ॥ हु दानादानयोः । 'णो हश्च--'इत्यादिना णः । हुणअइ । हुणएइ । हुणावइ । हुणावेइ ॥ ओहाङ् । हाअइ । हाएइ । हाआवइ । हाआवेइ । हाअविइ । अत्र गुर्वादित्वादविः ॥ धाञ् । धाअइ । धाएइ । धाआवइ । धाआवेइ। धाअविइ ॥ दिव् । दिवइ । दिवेइ । दिवावइ । दिवावेइ ॥ ञ् । 'उवर्णस्यावः' । 'अदेल्लुक्यात्-----' इत्यात्वम् । सावइ । सावेइ । सावावइ । सावावेइ ॥ मृ । 'अर उ' । आत्वम् । मारइ । मारेइ । मारावइ । मारावेइ ॥ रुधि । धन्भौ । रुन्धइ । रुन्धेइ । रुन्भइ । रुन्भेइ । रुज्झइ । इत्यादि । डुकृञ् । कारइ । कारेइ । इत्यादि । डुक्रीञ् । केअइ । केएइ । केआवइ । केआवेइ । केअविइ ॥ भ्रम् । “णिजदेदावावे' इत्यतः 'णिच्' इत्यधिकृत्य
भ्रमेराडः ॥२।४।१३॥
अमेः परो णिच् आड इति वा स्यात् । भमाडइ । पक्षे । भामइ । भामेइ । भामावइ । भामावेइ ॥ पटिधातौ णिचि 'फः पाटिपरिघपरिखा-' इत्यादिना पस्य फः । फाळइ । फाळेइ । इत्यादि । अत्र बडिशादित्वाट्टस्य लत्वम् । अथ चुरादयः । चुर स्तेये । णिचि । णिजादेशाः । 'अचोचाम्' इत्युकारस्य ओकारः । चोरइ । चोरेइ । चोरावइ । चोरावेइ । चोरविइ ॥ पाल रक्षणे । पाळइ । पाळेइ । पाळावइ । पाळावेइ । पाळविइ ॥ अर्च पूजायाम् । अच्चइ । अच्चेइ । अच्चावइ । अच्चावेइ अच्चविइ ॥ इत्याधुक्तसर्वधातुषु तदादेशेषु च णिचि रूपाणि बुद्धिमद्भिरूह्यानि । ग्रन्थगौरवभयादस्माभिर्न लिख्यन्ते ॥
अथ णिचि धात्वादेशाः प्रदर्यन्ते । स्पृहदूनोः सिहदूमौ णिचोः ॥२।४ । ९२॥ णिजन्तयोरनयोः सिहदूम इत्येतावादेशौ भवतः । सिहइ । दूमइ । सिहेइ । इत्यादि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org