SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३२ षड्भाषाचन्द्रिकायां आरभ आढप्पः ॥२। ४ । ८३ ॥ आरभतेर्भावकर्मणि आढप्प इत्यादेशो वा स्यात् । तत्संनियोगेन यग्लुक् च । आढप्पइ । पक्षे । आरभिज्जयि ॥ णप्पणजो ज्ञः ॥२।४ । ८४ ॥ जाणाते वकर्मणि णप्प णज इत्येतावादेशौ स्यातां तत्संनियोगेन यग्लुक् च । णप्पइ । णज्जइ । पक्षे । जाणिजइ । मुणिज्जइ । अत्र 'जाणमुणौ ज्ञः' इति ज्ञाधातोर्जाणमुणादेशौ । 'ज्ञम्नोः' इति णत्वे । णाइजइ ॥ सिप्पस्सिचस्निहोः ॥२।४। ८५॥ सिञ्चतेः स्निह्यतेश्च भावकर्मणि सिप्पादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । सिप्पइ । सिच्यते । स्निह्यते वा । पक्षे । सिंचिज्जइ । हि हिज्जइ । अत्र 'श्लक्ष्ण-'इत्यादिना बहादेशः ॥ वाहिप्पो व्याहुः ॥२।४ । ८६ ॥ व्याहरते वकर्मणि वाहिप्प इत्यादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । वाहिप्पइ । पक्षे । वाहरिजइ ॥ ग्रहर्घप्पः ॥२।४।९० ॥ ग्रहेर्धातोर्भावकर्मणि घेप्पादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । घेप्पइ । पक्षे । गेण्हिज्जइ । अत्र ‘ग्रहेर्णिरुवारगेह-'इत्यादिना गेहादेशः॥ छिप्पः स्पृशतेः ॥२।४।८८॥ स्पृशतेर्भावकर्मणि छिप्प इत्यादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । छिप्पइ । पक्षे । छिविज्जइ । अत्र 'स्पृशिश्छिवालुक्-' इत्यादिना स्पृशतेश्छिवादेशः॥ दीसलू दृशेः॥२।४ । ९१ ॥ शेर्भावकर्मणि दीस इत्यादेशो लित् स्यात् तत्संनियोगेन यग्लुक् च । लित्वान्नित्यम् । तथा च 'दृशिरोअक्खणिअच्छावअच्छ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy