________________
२३३
तिङन्तप्रक्रिया। इत्यादि सूत्रेण विधीयमाना आदेशाः दृशेः कर्मणि न भवन्ति । दीसइ ॥
वचेरुंचः॥२।४।९० ॥ वचे वकर्मणि उंच इत्यादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । उंचई । पक्षे । वइज्जइ । एषां धातुनामुक्ता एते आदेशा भावकर्मणो. रेव भवन्ति । एषां धातूनामेतद्व्यतिरिक्ता आदेशाः कर्तर्यपि भवन्ति ॥
अथ णिचि रूपनिर्णयः प्रदर्यते ।। भू इति स्थिते । अनुक्तमन्यन्यायेन णिचि भुवो हो इत्यादेशाः पूर्ववत् । होणि इति स्थिते ॥ णिजदेदावावे ॥२।४।११॥
धातोः प्रेरणार्थे विहितस्य णिच्प्रत्ययस्य स्थाने अत् एत् आव आवे इति चत्वार आदेशा भवन्ति । तकारस्तावन्मात्रप्रदर्शनार्थः । इजादयः पूर्ववत् । होअइ । होएइ । होआवइ । होआवेइ । बहुलाधिकारात् कचिदेतन्नास्ति । जाणअइ । जाणावइ । जाणावेइ । क्वचिदावे नास्ति । भारइ । भारेइ । भारावइ । पारइ । पारेइ । पारावइ ।।
गुर्वादेरविर्वा ॥२।४ । १२ ॥ ‘णिज्' अनुवर्तते । गुरुरादिर्यस्य धातोः स गुर्वादिः । गुर्वादेर्णिचः अविर्वा स्यात् । होअविइ । अत्र न यण् । 'एङः' इति च प्रतिषेधात् संधिर्न भवति । 'अपदे' इत्युक्तत्वाद्वा । लटि प्रथमे पूर्ववदिजादयः जर्जारौ च । अत्र णिजादेशयोरावे आव इत्येतयोः 'जाजे' इत्येत्वे कृते णिजादेशयोः अत् एत् इत्येतयोश्च स्वरूपत्तो भेदाभावाचतुर्णामुदाहरणवेलायां द्वैरूप्यमवगन्तव्यम् । होअइ । होएइ । होआवइ । होआवेइ । एवं तिप्तयोरिजादेशे रूपाणि । 'मध्ये चाजन्तात् इति जर्जारौ । होएजइ । होएजाइ । इदमदेतोः समानम् । होआवेजइ । होआवेजाइ । इदमावेआवयोस्तुल्यम् । होअविज्जा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org