________________
२३०
षड्भाषाचन्द्रिकायां
जिव्व । पुव्वइ । सुव्वइ । धुव्वइ । थुव्वइ । हुव्वइ । लुव्वइ । अत्र 'संयोगे' इति यथायोगं ह्रखः । बहुलाधिकारात् 'स्तौ' इत्युत ओत्वं न भवति । पक्षे 'णो हश्च – ' इत्यादिना ण इत्यागमः । यक अज्ज | चिणी । चिणिज्जइ । जिणीअइ । जिणिज्जइ । इत्यादि । भविष्यति । चिणिज्जहिइ । इत्यादि ॥
मर्चेः ।। २ । ४ । ७४ ॥
'भावकर्मणि' इत्यनुवर्तते 'यग्लुक् च' इति च । चिनोतेः परो भावकर्मणि मकारागमो रिद्वा स्यात् । चिम्मइ । पक्षे | चिव्वइ । चिणिज्जइ । भविष्यति । चिम्महि । पक्षे | चिणिज्जहि ||
अन्त्यस्य हनखनोः ।। २ । ४ । ७५ ।।
'मर्' इत्यनुवर्तते । हन खन इत्येतयोरन्त्यस्य भावकर्मणि मोरिद्वा स्यात् तत्संनियोगेन यग्लुक् च | हम्मइ । पक्षे । हेणिज्जइ । वि1 ष्यति । हैम्महिइ । खणिज्जहि । बहुलाधिकारात् कर्तर्यपि । हम्मइ । हन्तीत्यर्थः । कचिन्न भवति । हैंतव्वं कहंचण ॥
दुहलिहवहरुहां भरत उच्च ।। २ । ४ । ७६ ।
दुहादीनामन्त्यस्य भावकर्मणि भकारो रिद्वा स्यात् तत्संनियोगेन यग्लुक् च वहेरत उकारश्च । दुम्भइ । लिम्भइ । वुभ्भइ । रुम्भइ । पक्षे । दुहिज्जइ । लिहिज्जइ । वहिज्जइ । रुहिज्जइ ॥
दहेर्झर् ॥ २ । ४ । ७७ ॥
'अन्त्यस्य' इत्यनुवर्तते । दहेरन्त्यस्य भावकर्मणि झकारो रिद्वा स्यात् तत्संनियोगेन यग्लुक् च । दज्झइ । पक्षे | दहिज्झइ ||
बन्धो न्धः ।। २ । ४ । ७८ ॥
१ भावे कर्मणि M. २ M. adds after पक्षे हणिज्जहि । खम्मिहिइ । ३ M. inserts खम्मइ । खणिज्जइ after it. ४ हमिहिर M. has हंतव्वं । हंतूण । हन्तव्यम् । हत्वा ।
५ M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org