________________
तिङन्तप्रक्रिया ।
२२९ जइ ॥ युजिर्-जुंजीअइ । मुंजिजइ । जुप्पीअइ । जुप्पिजइ । जुज्जीअइ । जुजिज्जइ । अत्र 'जुजजुज्जजुप्पा युजेः' इति सूत्रेण त्रय आदेशाः । क्वचित् सिद्धावस्थापेक्षया जुज्जइ इति च दृश्यते । भुज पालनाभ्यवहारयोः-भुईअइ । भुइजइ । ललुटोः । 'डोच्छ वचिमुचिरुदिश्रुभुजः' इति ओच्छादेशो हिलुक् च वा । भोच्छीअहिइ । भोच्छिज्जहिइ । भोच्छीअइ । भोच्छिज्जइ । 'डं मेश्छात्ततः' इति मेस्थाने डं च । भोच्छीअअं । भोच्छिज्ज। भोच्छीअहिमि । भोच्छिजहिमि ॥ तनु-तणीअइ । तणिजइ । 'तड्डवविरल्लतडतड्डास्तनेः' इति तड्डवाद्यादेशाः । तड्डवीअइ । तड्डविजइ । इत्याद्यपि ॥ मनुमणीअइ । मणिज्जइ ॥ कृञ्-करीआई । करिज्जइ । लुङ्लङ्लिट्सु 'आ भूतभविष्यति च कृञः' इत्याकारः स्यादयश्च । काईअसि । काईअहिअ । काईअहि । एवमिज्जादेशेपि । भविष्यति । काईएहिइ । काईइहिइ । एवमिज्जादेशेपि । 'कृदो हं' इति भविष्यति मेस्थाने हैं । काईएहं । काईइहं । काइजेहं । काइज्जिहं । पक्षे । काईएहिमि । काइजहिमि ॥ वृञ्-वरीअइ । वरिजइ ॥ ग्रह उपादाने-गहीअइ । गहिजइ ॥
अनया दिशा धात्वन्तराणां सामान्येन विहितोक्तधात्वादेशस्थले च भावकर्मणोलकारेषु रूपाण्युदाहर्तव्यानि । ग्रन्थविस्तरभयाद्विशेषविधानाभावाच्चास्माभिर्न लिख्यन्ते ॥
अथ भावकर्मणोर्धातूनामागमादेशाश्च प्रदर्श्यन्ते ॥ 'णो हश्च चिजिपूश्रुधूस्तुहुलूभ्यः' इत्यतः ‘णो हश्च' इत्यधिकृत्य भावकर्मणि तु वर्यग्लुक् च ॥२।४ । ७३॥
भावे कर्मणि च वर्तमानेभ्यश्चिज्यादिभ्यो धातुभ्यः परो वकारागमो रित् स्याद्वा । तत्संयोगेन यको लुक् । रित्वाद् द्वित्वम् । चिव्वइ ।
१ सिद्धरूपापेक्षया M. २ M. has दृङ्-दरीअइ । दरिजइ in place of this line.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org