________________
तिङन्तप्रक्रिया ।
२२५
भाष्यन्ते । पहरइ । युध्यते । संहरइ । संवृणोति । अणुहरइ । सदृशीभवति । णिहरइ । पुरीषोत्सर्जनं करोति । विहरइ । क्रीडति । आहरइ । खादति । परिहरइ । त्यजति । पडिहरइ । पुनः पूरयति । उपहरइ । पूजयति । आहरइ । आह्वयति । पवसइ । देशान्तरं गच्छति । उच्चुवइ । चटति । झल्लहरइ । निःसरति । इत्यादि ।।
अत्र भावकर्मणोरेभ्य एव धातुभ्यः कतिचिद्रूपाणि प्रदर्श्यन्ते । अत्राकर्मकेषु धातुषु भावे प्रथमपुरुषैकवचनमेव । उपसर्गवशात् सकर्मकत्वे तेभ्योपि बहुवचनानि भवन्ति । भावे भू इति स्थिते । अनुक्तमन्यन्यायेन यकि हो इत्यादेशः । पूर्ववत् हो य इति स्थिते ईअइजौ यकः ॥ २ । ४ । ९१ ॥
सर्वेभ्यो धातुभ्यो भावकर्मणोर्विहितो यो यक् प्रत्ययस्तस्य ईअ इज्ज इत्यादेशौ भवतः । होईअ । होइज्ज इति स्थिते तिबादयस्तदादेशा इजादयश्च पूर्ववत् । भावे । होईअइ । होईअए । होइज्जई । होइज्जए । 'वा लड्लोट्छतृषु' इत्येत्वं वा । होईएइ । होइज्जेइ । 'लड्लटोश्च जर्जारौ' इति इचः स्थाने जर्जारौ च । 'जाजे' इत्यत एत्वं च वा । होईएज । होईएजा । होइज्जेज । होइज्जेज्जा । कर्मणि लटि प्रथमपुरुषैकवचने अनुपूर्वत्वमेव विशेषः । रूपाणि तु अणुहोई. अइ । इत्यादि । भाववत् । कर्मणि प्रथमपुरुषबहुत्वे झिझयोरादेशाः पूर्ववत् । यक ईआदेशपक्षे । अणुहोईअंति । अणुहोईअंते । अणुहोईअइरे । 'वा लड्लोट्छतृषु' इति वा एत्वे । अणुहोईएन्ति । अणुहोईएन्ते । अणुहोईएइरे । अत्र लङ्लटोः जर्जारौ । 'जाजे' इत्येत्वं च । अणुहोईएन । अणुहोईएज्जा । एवं यक इज्जादेशपक्षेपि रूपाणि कल्पनीयानि । मध्यमपुरुषैकवचने सिपथासोरादेशौ पूर्ववत् । यक ईआदेशपक्षे । अणुहोईअसि । अणुहोईएसि । अणुहोईएज । अणु
१ उल्लाहइ M. २ बहुवचनान्यपि M. ३ इत्यादेशावापद्यते M. ४ My. and P. drop पुरुष. ५My. and P. drop पुरुष.
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org