SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ षड्भाषा चन्द्रिकायां संदिशोप्पाहः ॥ ३ । १ । ११२ ।। संपूर्वस्य दिश अतिसर्जन इत्यस्य अप्पाह इति वा स्यात् । अप्पाहइ । पक्षे । संदिसs || २२२ ग्रसेर्धिसः ।। ३ । १ । ११३ ॥ ग्रसु अदन इत्यस्य घिस इति वा स्यात् । घिस । पक्षे । गसइ ॥ भासेर्भिसः ।। ३ । १ । ११४ ॥ भासृ दीप्तावित्यस्य भिस इति वा स्यात् । भिसइ । पक्षे । भासइ ॥ प्रतीक्षेर्विहर विरमालसामआः ।। ३ । १ । ११५ ॥ प्रतिपूर्वस्येक्षतेः विहर विरमाल सामअ इति वा भवन्ति । विहरह । एवमितरौ । पक्षे । पडिक्खह || संसेईसडिम्भौ ।। ३ । १ । ११६ ॥ संसु अवस्रंसन इत्यस्य ल्हस डिम्भ इति द्वौ भवतः । ल्हसइ । डिम्भइ | पक्षे | संसइ । परिल्हसइ इत्यपि दृश्यते ॥ मृक्षेश्वोव्वडः ॥ ३ । १ । ११७ ॥ मृक्ष संघात इत्यस्य चोव्वड इति वा स्यात् चोव्वडइ । पक्षे । मक्खइ || विसो दलेः ॥ ३ । १ । ११८ ॥ दलतेर्विसट्ट इति वा स्यात् । विसदृइ । पक्षे । दळइ ॥ सेञ्जरौ || ३ । १ । ११९ ।। त्रसतेर्वज्ज डर इत्येतौ वा भवतः । वज्जइ । डरइ ॥ वोजो वीजेश्व ॥ ३ । १ । १२० ।। वीज व्यजन इत्यस्य चकारात् त्रसेश्च वोज्ज इति वा स्यात् । वोज्जइ । पक्षे । वीजइ । तसइ ॥ १ भानुर्भिसः P. My . २ भास M. Jain Education International ३ सामयाः M. For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy