SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२० षड्भाषाचन्द्रिकायां प्रत्यागमागमाभ्यागमा पल्लोहाहिपचुओम्मच्छाः ॥३।१। ९८॥ प्रत्यागमेरागमेरभ्यागमेश्च यथाक्रममेते त्रय आदेशा वा भवन्ति । पल्लोट्टइ । अहिपञ्चुअइ । उम्मच्छइ । पक्षे । पञ्चाअच्छइ । अत्र 'त्योचैत्ये' इति त्यस्य चः । आअच्छइ । अब्भाअच्छइ ।। रिहरिंगौ प्रविशेः॥३।१।९९॥ प्रविशतेः रिह रिंग इति वो भवतः । रिहइ । रिंगइ । पक्षे । पविसइ॥ संगमोव्हिडः ॥३।१।१००॥ संगच्छतेरव्हिड इति भवति । अहिँडइ । पक्षे । संगच्छइ ॥ डिप्पणिड्डहौ विगले ॥३।१।१०१॥ विपूर्वस्य गलतः डिप्प णिड्डह इति वा भवतः । डिप्पइ । णिड्डहइ । पक्षे । विगळइ ॥ णिवहणिरिणासणिरिणिजरोचचंडाः पिष्टेः ॥ ३।१।१०२॥ पिष्ल संचूर्णने इत्यस्य णिवह णिरिणास णिरिणिज रोच्च चंड इति पञ्चादेशा वा स्युः । णिवहइ । एवमन्येऽपि । पक्षे । पिसइ ॥ वलेर्वफः ॥३।१।१०३॥ वलेवैफ ईति वा स्यात् । वंफइ । पक्षे । वलइ ॥ भ्रंशेः पिड्डपिट्टचुकचुल्लघट्टधाडाः ॥३।१।१०४ ॥ अंशु अधःपतन इत्यस्य पिड्ड पिट्ट चुक चुल्ल घट्ट घाड इति षडादेशा वा स्युः । पिड्डइ । एवमन्येपि । पक्षे । भंसइ ॥ भषेर्बुकः ॥३।१।१०५॥ भष श्वविराव इत्यस्य बुक्क इति वा स्यात् । बुक्कइ । पक्षे । भसइ ॥ १ स्युः M., T. २ तु स्तः T. ३ संगमोच्छिडः P. ४ °रच्छिड P. ५ तु स्तः T. ६ अच्छिडइ P. ७ द्वौ आदेशौ तु । T. ८ इत्यादेशस्तु T. ९ छुक्कछुल्लपुटपुटाः P. १० छुक छुल्ल पुट्ट पुट P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy