SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१२ षड्भाषाचन्द्रिकायां ओहरौसराववतरेस्तु ॥ ३ । १ । ३६ ॥ अवपूर्वस्य तु प्लवनतरणयोरित्यस्य ओहर ओसर इत्यादेशौ वा भवतः । ओहरइ । ओसरइ । त्वधिकारे पुनस्तुग्रहणमधिकारस्यानुस्मारणार्थम् ॥ शकेस्तरतीरपारचआः ॥३।१ । ३७॥ शक्ल शक्तावित्यस्य तर तीर पार चअ इति चत्वार औदेशा भवन्ति । तरइ । तीरइ । पारइ । चअइ । पक्षे । सक्कइ । तरतेरपि तरइ । पारतीर कर्मसमाप्तावित्यनयोरपि । पारइ । तीरइ । त्यजेरपि । चअइ । अत्र 'त्योचैत्ये' इति त्यस्य चः जलोपश्च ॥ वेअडः खचेः॥३।१। ३९ ॥ खचतेर्वेअड इति वा स्यात् । वेअडइ । पक्षे । खअइ ॥ सिंचसिप्पो सिचेः ॥ ३ । १ । ४२ ॥ षिच क्षरणे इत्यस्य सिंच सिप्प इति वा भवेतः । सिंचइ । सिप्पइ । पक्षे । सेअइ ॥ रचेविडविड्डावहोग्गहाः ॥३।१।४३॥ रच प्रतियन इत्यस्य विडविड्ड अवह उग्गह इति त्रय आदेशा भवन्ति । विडविड्डइ । अवहइ । उग्गहइ । पक्षे । रअइ ।। केवलाअसारवसमारोवह हास्समारभेः ॥३।१।४४ ॥ समापूर्वस्य रभ राभस्य इत्यस्य केवलाअ सारव समार उवहट्ठ इति चत्वार आदेशा भवन्ति । केवलाअइ । सौरवइ । समारइ । उवहट्ठइ । पक्षे । समारहइ ।।। १ इति तु स्तः T. २ स्मरणार्थम् M. ३ आदेशाः for आदेशा भवन्ति T. ४ एवमन्येपि for तीरइ-चअइ M.; इत्यादि T. for तीरइ-चअइ. ५ स्तः T. ६ T. drops भवन्ति. ७ चत्वारः स्युः . ८ T. has इत्यादि in place of this and the remaining instances. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy