________________
तिङन्तप्रक्रिया।
२१३
मस्जेराउड्डणिउड्डबुड्डखुप्पाः ॥३।१।४५॥ टुमस्जौ शुद्धावित्यस्य आउड्ड णिउड्ड बुड्ड खुप्प इति चत्वार आदेशा भवन्ति । आउड्डइ । णिउड्डइ । बुड्डइ । खुप्पइ । पक्षे । मजइ ॥
अनुव्रजेः पडिअग्गः ॥३।१।४६ ॥
अनुपूर्वस्य व्रज गतावित्यस्य पडिअग्ग इति वा स्यात् । पडिअ. ग्गइ । पक्षे । अणुवअइ ॥ वंर्वेहववेलवजूरवोम्मच्छाः ॥३।१। ४७ ॥
वंचु प्रलंबन इत्यस्य वेहव वेलव जूरव उम्मच्छ इति चत्वार आदेशा वा स्युः । वेहवइ । एवमन्येपि । पक्षे । वंचइ ॥
रोसाणोबुसलुहलुच्छपुच्छफुसफुस्सघसहुला मार्जेः॥३४८॥
मृजू शुद्धावित्यस्य रोसाण उबुस लुह लुच्छ पुच्छ फुस फुस्स घस हुल इति नैवादेशा भवन्ति । रोसाणइ । उँबुसइ । एवमन्येपि । पक्षे । मज्जई॥ मञ्जर्वेमअमुसुमूरमूरपविरजसूरसूडकरंजनिरंजविराः
॥३।१।४९॥ भञ्जो आमर्दन इत्यस्य वेमअ मुसुमूर मूर पविरज्ज सूर सूड करंज निरंज विर इति नवादेशाः स्युः । वेमअइ । मुसुमूरइ । एवमन्येपि । पक्षे । भंजइ ॥
गर्जेर्बुक्कः ॥३।१।५०॥ गर्जतेर्बुक्कादेशो वा स्यात् । बुक्कइ । पक्षे । गजइ ॥ डिको वृषे ॥३।१ । ५१ ॥
वृषकर्तृकस्य गर्जतेर्डिक इत्यादेशो वा स्यात् । डिक्कइ । बृषो गर्जतीत्यर्थः॥
१ आदेशाः स्युः T २ M. drops वा. ३ नवादेशाः स्युः M.; नवादेशाः T. ४ इत्यादि for उबु.....'न्येपि T. ५T. has अत्र संयोग इति ह्रखः after it. ६ T. drops it. ७ इत्यादि T. ८T. drops बा स्यात. ९ My. and P. drop the sentence.
-
-
-
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org