________________
२०८
षड्भाषाचन्द्रिकायां लिपेर्धातोलिंप इत्यादेशो भवति । लिंपइ ॥ शदेझडपक्खोडौ ॥२।४।१४४ ॥
शद शातन इत्यस्य झड पक्खोड इत्येतावादेशौ भवतः । झडइ । पक्खोडइ ॥
ने सदेमंजः ॥२।४।१४५॥ निपूर्वस्य सदेर्धातोर्मज इत्यादेशो भवति । णुमजइ । निषीदति । अत्र 'द्विनीक्षुप्रवासिषु' इति सूत्रेण नेरिकारस्योत्वम् ॥ .
पृच्छेः पुच्छः ॥२।४ । १४६॥ पृच्छतेः पुच्छादेशः स्यात् । पुच्छइ ॥ गंठो ग्रन्थेः ॥२।४ । १४७॥ ग्रन्थ संदर्भ इत्यस्य गंठ इत्यादेशो भवति । गंठइ ॥ तुवरजअडौ त्वरेः ॥२।४ । १४८ ॥ त्वरतेः तुवर जैअड इत्येतौ भवतः । तुवरइ । जंअडई ॥ तूरः शतृतिङि ।। २।४।१५०॥ त्वरेः इत्यनुवर्तते । शतृप्रत्यये तिङि च त्वरेस्तूर इत्यादेशो भवति । तूरइ ॥
पर्यसेः पल्लट्टपल्लोट्टपल्हत्थाः ॥२।४ । १५१ ॥
परिपूर्वस्यासु क्षेपण इत्यस्य पल्लट्ट पल्लोट्ट पल्हत्थ इति त्रय आदेशा भर्वन्ति । पल्लट्टइ । पल्लोट्टइ । पल्हत्थइ ।
मृगातेमेलपरिहट्टखुड्डपन्नाडचड्डमड्डमडाः ॥२।४ । १५२॥
मृगातेर्मल परिहट्ट खुड्ड पन्नाड चड्ड मड्ड मड इति सप्तादेशा भवन्ति । मलइ । परिहट्टइ । खुड्डइ । पन्नाडइ । चड्डइ । मड्डइ । मडइ ॥
१ इति स्तः T. २ पुच्छादेशो भवति M.; पुच्छादेशः T.. ३ T. drops it. ४ जयडौ M. ५ जयड M. ६ जयडइ M. ७ इत्यादेशः स्यात् T. ८ T. drops it. ९ T. drops it. १० M. has · एवमन्येपि in place of the remaining instances.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org