________________
तिङन्तप्रक्रिया।
२०७ आलिह छिह इति सप्तादेशानापद्यते । छिवइ । आलुक्खइ । एवमन्येपि ॥
फक्वस्थकः ॥२।४ । १३३ ॥ फक्क नीचैर्गतावित्यस्य धातोः थक्क इत्यादेशो भवति । थक्कइ ।। श्लाघः सळाहः ॥२।४ । १३४ ॥ श्लाघृ कत्थन इत्यस्य धातोः सळाह इत्यादेशो भवति । सळाहइ ।। दिप्पस्तृपः ॥२।४ । १३५ ॥ तृप प्रीणन इत्यस्य दिप्प इत्यादेशो भवति । दिप्पइ ।। भियो भाभिहौ ॥२।४ । १३६ ॥
जिभी भय इत्यस्य भा भिह इत्यादेशौ भवतः । भाइ । अक् । भाअइ । मिहइ ॥
जृम्भेरवेर्जभा ॥२।४ । १३८ ॥
वीत्युपसर्गरहितस्य नँभि गात्रविनाम इत्यस्य जंभा इत्यादेशो भवति । जंभाइ । जंभाअइ । 'अवेः' इति किम् । विअंभइ ॥
जनो जाजम्मौ ॥२।४ । १४०॥
जनी प्रादुर्भाव इत्यस्य जा जम्म इति भवतः । जाइ । जाअइ । जम्मइ ॥
उत्थल्ल उच्छले ॥२ । ४ । १४१ ॥ उत्पूर्वस्य शल गतावित्यस्य उत्थल्ल इत्यादेशो भवति । उत्थल्लइ ॥ घूर्णेघुम्मपहल्लघोलघुलाः ॥२।४ । १४२॥
पूर्ण भ्रमण इत्यस्य घुम्म पहल्ल घोल घुल इति चत्वार आदेशा भवन्ति । घुम्मइ । पहल्लइ । घोलइ । घुलइ ॥ लिंपो लिँपः ॥२।४ । १४३ ॥
१ स्तः M. २ जुभि P. ३ T. drops it. ४ सोपसर्गस्य न for 'अवेः' इति किम् T. ५ स्युः T. ६ लिपेः M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org