SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया । २०५ चलतौ स्फुटितौ चान्त्यस्य द्वे रूपे वा भवतः । चल्लइ चलइ । फुड्डइ । फुडइ । अत्र 'प्पस्पोः फः' इति फत्वम् । 'टो ड' इति डत्वं च ॥ शकगे ॥२।४ । ६३॥ 'द्वे' इत्यनुवर्तते । शकादिषु धातुष्वन्त्यस्य द्वे रूपे भवतः । योगविभागान्नित्यम् । शक । सक्कइ । मृग । मग्गइ । षिवु । सिव्वइ । अँटि । अट्टइ । लैटि । लुट्टइ । त्रुटि । तुट्टइ । कुपु । कुप्पइ । जम । जम्मइ । णश । णस्सइ ॥ 'अर उः' इत्यतः 'उः' इत्यधिकृत्य अरि वृषाम् ॥२।४।६७॥ वृषप्रकाराणां धातूनामृवर्णस्य अरि इत्यादेशो भवति । वृष । वरिसइ । मृष । मरिसइ । हृष । हरिसइ । बहुवचनं प्रयोगानुसरणार्थम् ॥ निमनिम्मवनिम्माणौ ॥२ । ४ । १२० ॥ 'अन्त्यस्य' इति निवृत्तम् । निपूर्वस्य मिमीतेः निम्मव निम्माण इत्यादेशौ भवतः । निम्मवइ । निम्माणइ । 'आदेस्तु' इति वा णत्वे । णिम्मवइ । णिमाणइ । पक्षे णिम्मइ ॥ आलीङोल्लिः ॥२।४। १२१॥ आङ् पूर्वस्य लीयतेः अल्लि इति भवति । अल्लिइ ॥ स्त्यस्समः खा ॥ २।४ । १२४ ॥ संपूर्वस्य स्त्यै श्यै शब्दसंघातयोरित्यस्य खा इत्यादेशो भवति । संखाइ । 'त्वनतः' इत्यक् । संखाअइ ।। १My. and P. drop योगविभागान्नित्यम् । २ षिव् M. ३ अट M. ४ लुट M. ५ त्रुट M. ६ कुप् P., कुप M. ७ जिम । जिम्मइ M. ८ णस My., P. ९ इत्यादेशः स्यात् T. १. M. inserts कृष । करिसइ before it. ११ इति भवतः M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy