________________
२०४
षड्भाषाचन्द्रिकायां ___ 'ढः' इत्यनुवर्तते । वेष्ट वेष्टन इत्यस्य 'कगटड-' इत्यादिना षलोपेन्त्यस्य ढो भवति । वेढइ ॥
समुदो लर् ॥२।४ । ५७ ॥ 'वेष्टेः' इत्यनुवर्तते । सम् उद् इत्युपसर्गाभ्यां परस्य वेष्टतेरन्त्यस्य लकारो रित् स्यात् । संवेल्लइ ।' बहुलाधिकारादुतः परस्य वा लः। उठवेल्लइ । उव्वेढइ ॥
खादधावि लुक् ।।२।४ । ५८॥
खादतौ धावतौ चान्त्यस्य लग्भवति । खाइ । 'त्वनतः' इत्यक् । खाअइ । खाहिइ । अत्र 'भविष्यति हिरादिः' इति हिः । खाउ । अत्र 'एकस्मिन् प्रथमादेर्विध्यादिषु-' इत्यादिना दुः दलोपश्च । धाइ। धाहिइ । धाउ । बहुलाधिकाराद् वर्तमानभविष्यद्विध्यायेकवचन एवान्त्यलोपः । तेनेह न भवति । खादन्ति । धावन्ति । कचिद् धावइ पुरओ इति च दृश्यते । धावति पुरतः । ओसरइ ॥
र: मृजि ॥२।४ । ५९ ॥ सृजिधातोरन्त्यस्य रत्वं भवति । 'विसरइ । डः सीदपति ॥२।४।६०॥ सीदतौ पततौ चान्त्यस्य डत्वं भवति । सडइ । पैडइ ॥ मीले प्रादेहूँ तु ॥ २।४। ६१ ॥
प्रादेरुपसर्गात् परस्य मीलेरन्त्यस्य वा द्वित्वं स्यात् । समिल्लइ । अत्र 'संयोगे' इति हूखः । समीलइ । अत्र समो मांसादित्वाद्विकल्पेन बिन्दुलोपः । संमिल्लइ । संमीलइ । निमीलइ । निमिल्लइ । 'प्रादेः' इति किम् । मीलइ ॥
चलस्फुटे ॥२।४ । ६२ ॥ __१ M. adds उव्वेलइ. २ लुक् स्यात् T. ३ M. drops it. ४ M. drops it. ५P. and My. omit it. ६ M. drops it. ७ M. inserts office before it.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org