SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया। २०६ - नमतेरुद्विजते रोदतेश्चान्त्यस्य वकारो भवति । णम् । णवइ । उद्विज् । अक् । उव्विवइ । अत्र दलोपद्वित्वे । रुदिर । रुवइ । उब्वेवइ । रोवइ । 'अचोचाम्' इत्येत्वमोत्वं च ॥ चतिमदिव्रजाम् ।। २ । ४ । ४९ ॥ 'अन्त्यस्य' इत्यनुवर्तते । नृति मद व्रज एषां धातूनामन्त्यस्य चकारों रिद्भवति । रित्वाद् द्वित्वम् । णच्चइ । अत्र 'ऋतोत्' इत्यतः अत्वम् । मञ्चइ । वच्चइ । अत्र 'लवराम्-' इति रेफलोपः ।। छर्गमिष्यमासाम् ॥ २।४ । ५० ।। 'अन्त्यस्य' इत्यनुवर्तते । गम् इष् यम् आस् एषामन्त्यस्य छोरित् स्यात् । गच्छइ । इच्छइ । जच्छइ । अत्र जत्वम् । अच्छइ । अत्र 'संयोगे' इति हसः॥ युधबुधगृधक्रुधसिधमुहां च ज्झः॥२ । ४ । ५२ ॥ युधादीनां चकाराद्धेश्चान्त्यस्य द्विरुक्तो झकारः स्यात् । जुज्झइ । बुज्झइ । गिज्झइ । अत्र कृपादित्वात इत्वम् । 'अचोचाम्' इति वा इत्वम् । कुज्झइ । अत्र रेफलोपः । सिध । सिज्झइ । मुह । मुज्झइ ॥ जर विदाम् ॥२।४। ५३ ॥ खिदिप्रकाराणां धातूनामन्त्यस्य जकारो रिद् भवति । खिद् । सिज्झइ । संपद् । संपज्जइ । खिजइ । बहुवचनं प्रयोगानुसरणार्थम् ॥ ढः कथिवर्धाम् ॥ २।४ । ५५॥ कथतेर्वर्धतेश्चन्त्यस्य ढः स्यात् । 'लवराम्-' इति लोपः। कड्डइ । वैड्डइ । बहुवचनाद्धेः कृतगुणस्य वर्धतेश्चाविशेषेण ग्रहणम् ॥ वेष्टेः ॥२।४ । ५६ ॥ - - - १ अन्त्यस्य is omitted in My., P. २ M., My., and P. drop a. Omitted in My., M, P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy