SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया । १९५ इश्च उश्च युः तस्य योर्धातोरिवर्णोवर्णयोः एङ् एदोतौ यथासंख्यं भवतः । इवर्णस्य एकारः । उवर्णस्य ओकारः । इत्येत्वे । 'शोस्सल' । सेइ । 'त्वनतः' इत्यक् । सेअइ । सेअए । इत्यादि । हुवत् ॥ बेञ् व्यक्तायां वाचि । उवर्णस्यावः ॥२।४ । ६४ ॥ धातोरन्त्यस्य उवर्णस्य अव इत्यादेशो भवति । रेफलोपः । बवइ । बवए । 'योरेङ्' इत्योत्वे । बोइ । एवं ढुङ् धूङ् प्रभृतयः ॥ हु दानादानयोः। णो हश्च चिजिपूश्रुधृस्तुहुलूभ्यः ॥२।४। ७२ ॥ एभ्यः परो ण इत्यागमो वा भवति । तत्संनियोगेन दीर्घस्य हखश्च । हुणइ । हुणए । पक्षे उवर्णस्य अव इत्यादेशः । हवइ । हवए । नात्र 'योरेङ्' इत्युकारस्यौत्वम् । अनन्तरविषयत्वात् तस्य । परंतूवर्णस्य अव इत्यादेशः । बहुलाधिकाराण्णागमः कचिद्विकल्पितः । उच्चेणइ । उच्चेइ । जेणइ । जेइ । ओहाङ् गतौ । अनुक्तमन्यन्यायेनानुबन्धलोपः । 'त्वनतः' इत्यगागमः । हाअइ । हाअए । पक्षे । हाइ । डु धाञ् धारणपोषणयोः । अनुबन्धलोपः । अर् । धाअइ । धाअए । पक्षे । धाइ॥ धो दहश्रदः॥२।४ । १३१ ॥ श्रदित्यव्ययात् परस्य दर्धातेर्दह इत्यादेशो भवति । 'अश्रदः' इति पर्युदासादन्त्यहलो लोपो न भवति । रेफलोपः । सत्वम् । सद्दहइ । सद्दहए । दिवि क्रीडादौ । अक् । दिवइ । दिवए ॥ अथ पुरुषादयोपि प्रदयन्ते । रुषगेचो दिः॥२।४। ६८॥ रुषादिष्वादेरचो दीर्घो भवति । रुष । रूसइ । रूसए । शुष । १ धूञ् M. २ भवति वा T. ३ M. drops च. ४ अक् M. ५ इत्यादेशः स्यात् T. ६ अत्र M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy