________________
१९२
षड्भाषाचन्द्रिकायां लिङ्लोटोः प्रथममध्यमोत्तमपुरुषैकवचनानां स्थाने दुसु मु इति क्रमाद्भवन्ति । होदु । लिङ्लोटोराशीरर्थे उकारान्तस्यैव प्रयोग इति केचित् । तदा दलोपः । दकारोच्चारणं भाषान्तरार्थमित्यपरे । प्राकृते विध्यादिषु होउ । अत्र 'प्रायो लुक्-'इति दलोपः । होसु । होमु ॥
बहौ न्तुहमो ॥२।४ । ३६ ॥ लिङ्लोटोः प्रथममध्यमोत्तमबहुवचनानां स्थाने न्तु ह मो इति क्रमाद् भवन्ति । होन्तु । होह । होमो ।
सोस्तु हि ॥ २।४ । ३७ ॥ विध्यादिषु 'एकस्मिन्-'इति सूत्रविहितस्य सोर्मध्यमपुरुषैकवचनस्य स्थाने हि इत्यादेशो वा भवति । होहि । होसु । पूर्ववत् 'मध्ये चाजन्तात्' इति जर्जारौ । तदा । होजदु । होज्जादु । होज । होज्जा । एवं वचनान्तरेष्वपि जर्जारावूह्यौ ॥ लिङि
विजाल्लिङः ॥२ । ४ । ३४ ॥ लिङो जर्जा| पर इकारो वा प्रयोक्तव्यः । होज्जइ । होजाइ । इयान् विशेषः । शेषं पूर्ववत् । एवमन्येषामजन्तानां लिङ्लोटो रूपम् । हलन्तानां तु 'वा लड्लोट्छतृषु' इति वा एत्वम् । हवेउ । हवउ । हवेन्तु । हवन्तु । हवेज । हवज । हवेज्जा । हवजा ॥ मध्यमे 'सोस्तु हि' इत्यतः 'सोः' इत्यनुवर्तमाने
लुगिजहीजस्विजेतः॥२ । ४ । ३८॥
अदन्ताद्धातोः मध्यमैकवचनादेशस्य सोः स्थाने लुक् इजहि इज्जसु इज्जे इति चत्वार आदेशा भवन्ति । हव । हविजहि । हविजसु । हविज्जे । पक्षे । हवसु । हवेसु । हवेज । हवेज्जा । 'त्विजाल्लिङः' इति इत्वं च । हवेजइ । हवेज्जाइ । शेषं पूर्ववत् । एवमन्येषां हलन्तानां रूपं नेयम् ।। लङि
१ क्रमात् स्युः T. २ °मिति केचित् T. ३ T. has प्रत्ययानां before स्थाने. ४ स्यात् T. ५ स्यात् T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org