________________
तिङन्तप्रक्रिया। पक्षे । होहिमि । होहिमो । होहिमु । होहिम । कचित्तु हा न भवति ॥ 'डं मेश्छात्ततः' इत्यतः 'मेः इत्यनुवर्तते 'भविष्यति' इति च
सर् ॥ २।४ । ३३॥
धातोः परतो भविष्यति काले मेः स्थाने सर् इति वा भवति । रित्वाद् द्वित्वम् । होहिस्सं । पक्षे । होहिमि ॥
हिस्साहित्था मुमोमस्य ॥ २।४ । २७॥
'वा' इत्यनुवर्तते 'भविष्यति' इति च । भविष्यति काले मु मो म इत्येतेषां स्थाने हिस्सा हित्था इत्येतौ धातोः परतो वा प्रयोक्तव्यौ । होहिस्सा । होहित्था । पक्षे । होहिमु । इत्यादि । पूर्ववत् जर्जारौ च । 'त्वनतः' इत्यगागमादिलवत् । एवमन्येषामजन्तानां भविष्यति रूपम् ॥ हलन्तानां तु भविष्यति अगागमे कृते 'अदेल्लुक्यात्खोरतः' इत्यतः अतः' इत्यधिकृत्य 'मोममुविच्च' इत्यतः 'इत्' इति च
एच क्त्वातुंतव्यभविष्यति ॥ २ । ४ । १९ ॥ क्त्वातुंतव्येषु भविष्यत्कालविहिते च प्रत्यये परतः अत एत्वं चकारादिच्च भवति । हवेहिइ । हविहिइ । हवेहिज्ज । हवेहिज्जा । हविहिज्ज । हविहिज्जा । हवेहिति । हवेहिंते । हविहिंति । हविहिंते । इत्यादि । जर्जारौ च । मध्यमे । हवेहिसि । हविहिसि । हवेहिइत्था । हविहिइत्था । हवेहिह । हविहिह । जजोरौ च । उत्तमे । हवेहिमि । हविहिमि । हवेहामि । हविहामि । हवेस्सामि । हविस्सामि । हवेहिस्सं । हविहिस्सं । जर्जारौ च । हवेहिमो । हवि. हिमो । हवेहामो । हविहामो । हवेस्सामो । हविस्सामो । एवं मम्वोरपि । हेवेहिस्सा । हविहिस्सा । हवेहित्था । हविहित्था । जर्जारौ च । एवमन्येषां हलन्तानां भविष्यति रूपम् ॥ लोटि __एकसिन् प्रथमादेविध्यादिषु दुसुमु ॥२।४ । ३५ ॥
1 T. drops तु. २ M. omits च, ३ इत्यधिकृत्य M., T. ४ इति च M., T. ५ हविहिस्सा । हवेहिस्सा M. ६T. drops च. ७ P. and My. add नेयम् after it.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org