________________
१९०
षड्भाषाचन्द्रिकायां 'त्वनतः' इत्यगागमः । होअसि । होअहिअ । होअहि । सर्वत्र अभूत् अभवत् बभूव वा । स्यादयस्तु तिप्तयोरेव । अस्मिन् शास्त्रे वर्तमानार्थवाचिनोपि भूतार्थवाचित्वमस्तीति लडादेशा इजादयोपि भवन्ति । तेन 'लड्लटोश्च जारौ' 'मध्ये चाजन्तात्' इति जर्जारौ सर्वत्र भवतः । तथा च होइ । होन्ति । होमि । इत्यादीनि सर्वाणि लड़पाण्युदाहर्तव्यानि । ग्रन्थविस्तरभयान्न लिख्यन्ते । एवमन्येषामजन्तानां भूतलकारेषु रूपनिर्णयः ॥ हलन्तानां तु
हल ईअ ॥२।४ । २३॥
'भूतार्थस्य' इत्यनुवर्तते । भूतार्थे वर्तमानयोः हलन्तात् परयोः तिप्तयोः ईअ इत्यादेशो भवति । हवीअ । हवइ । हवन्ति । इत्यादि हलन्तवद्रूपाणि सर्वाण्युदाहर्तव्यानि । एवमन्येषां हलन्तानां भूतार्थवाचिषु रूपं नेयम् ॥ ललुटोः
भविष्यति हिरादिः॥२॥ ४॥ २५ ॥ ___ भविष्यदर्थे विहितप्रत्यये परे तस्यैव हिरित्यादिः प्रयोक्तव्यः । पूर्ववदिजादयः । होहिइ । बहुलाधिकारात् क्वचिदेकपदेपि सन्धिः । होही । भविष्यति । भविता वा । बहुत्वे हिः । होहिन्ति । इत्यादि लड्वत् । लकारात् प्राक् हिकार एवाधिकः । मध्यमे । होहिसि । होजहिसि । होजाहिसि । होहिज । होहिज्जा । होहिद्धा । होहिह । इत्यादि सर्व लड्वत् । लकारात् प्राक् हिकार एवाधिकः ॥ उत्तमे
हार्सा मिमोमुमे वा ॥२ । ४ । २६ ॥ 'भविष्यति' इत्यनुवर्तते । 'ओदिः' इति च । भविष्यदर्थे विहितेषु उत्तमपुरुषादेशेषु मिमोमुम इत्येतेषु परेषु एषामेवादिः हार्सा इत्येतौ वा प्रयोक्तव्यौ । पक्षे हिरपि । होहामि । होस्सामि । अत्र रित्वाद् द्वित्वम् । होहामो । होस्सामो । होहामु । होस्सामु । होहाम । होस्साम ।
१ वा स्यात् T. २ M. and T. drop 'आदिः' इति च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org