________________
१८८
षड्भाषाचन्द्रिकायां _ 'अदेल्लुकि-' इत्यादेः 'एत्' इत्यनुवर्तते 'अतः' इति च । एषु परेषु अत एत्वं वा स्यात् । इत्यगागमस्यैव धात्ववयवस्य वा एत्वे । होएमि । होअमि । होन्जमि । होज्जामि । इदं सूत्रं लड्लोटोः सर्ववचनेषु अगागमस्य वा एत्व विधायकम् । कचिन्न भवति । जअइ । कचिदात्वमपि । सुणाइ । 'वा ड्रलोट-' इत्यनेनैव एत्वे होजेमि । होज्जमि । 'लडूलटोश्च जर्जारौ' इति जर्जारौ भवतः । हुज । हुज्जा ।। उत्तमपुरुषबहुवचने
मोममुमसहिङ् ॥ २।४ । ६॥
उत्तमपुरुषस्य बहुत्वे वर्तमानयोः मस् महिङ् एतयोः मो म मु इति त्रय आदेशा भवन्ति । हुमो । हुम । हुम् ॥ 'त्वनतः' इत्यगागमे सति 'अदेल्लुक्यात्खोरतः' इत्यतः 'अतः' इत्यधिकृत्य 'तुमौ' इति 'अस्तु' इति च
मोममुष्विच्च ॥ २।४ । १७ ॥
अकारान्ताद्धातोः मो म मु इत्येतेषु परेषु अत इत्वं चकारादात्वं च वा स्यात् । इत्यगागमस्यैव धात्ववयवस्य इत्वे आत्वे च । हुइमो । हुआमो । पक्षे । हुअमो । 'वा लड्लोट्-'इत्येत्वे । हुएमो । हुइम । हुआम । होअम । हुएम । हुइम । हुइमु । हुआमु । हुअमु । होएमु । 'मध्ये चाजन्तात्' इति जर्जारौ । हुजिमो । होजमो । होजामो । होजेमो । एवं मम्वोरप्युदाहार्यम् । 'लड्लटोश्च जर्जारौ' । हुज । हुजा । एवमजन्तानां लटि रूपं नेयम् । हवादीनां हलन्तानां तु भेदः । ह व इति स्थिते । अनुक्तमन्यन्यायेन 'उपदेशेजनुनासिक इत्' इत्यकारलोपः । सुखोच्चारणं प्रयोजनम् । 'हलोक्' इत्यगागमः । इजादयश्च । हवइ । हवए । 'लडूलटोश्व-' इति जर्जारौ ॥
जाजे ॥ २ । ४ । २१ ॥ 'अदेल्लुक्यात्खोरतः' इत्यतः 'अतः' इति 'एत्' इति चानुवर्तते । १ उत्तमस्य बहुवचने M. २ इत्येतो प्रत्येकं मो म मु इत्यादेशानापद्यते. T. ३ इत्यनुवर्तते M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org