SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया । सिप्थास्सेसि ॥२।४।२॥ 'लटः' इत्यनुवर्तते । लटः परस्मैपदात्मनेपदमध्यमपुरुषैकत्वे वर्तमानयोः सिप् थासू इत्येतयोः प्रत्येकं से सि इत्येतौ भवतः । होसि । नात्र से । अनदन्तत्वात् । 'त्वनतः' इत्यगागमे कृते अदन्तत्वात् से सि । होअसि । होअसे । 'मध्ये चाजन्तात्' इति जर्जारौ । होजसि । होजासि । 'लड्लटो:-' इति जर्जारो । होज । होजा ॥ मध्यमपुरुषबहुवचने थध्वमित्थाहचौ ॥ २ । ४ । ५॥ लटो मध्यमपुरुषबहुवचनयोः थध्वं इत्येतयोः प्रत्येकं इत्थाहच् इत्यादेशौ भवतः । होइत्था । होह । होअइत्था । होअह । होज. इत्था । होज्जह । होज्जाइत्था । होजाह । होज । होजा । बहुलाधिकारात् क्वचित् प्रथमपुरुषैकवचनेपि इत्था । जन्ते रोइत्था । यत्ते रोचते ॥ उत्तमपुरुषैकवचने मिर्मिबिटौ ॥२।४ । ३॥ लटः परस्मैपदात्मनेपदोत्तमपुरुषैकवचनयोः मिप् इट् इत्येतयोः प्रत्येकं मि इति भवति । होमि । बहुलाधिकारात् मिबिटोरादेशस्य मेरिकारलोपश्च । बहु वण्णिउ पण सकं । बहु वर्णितुं न शक्नोमि । 'त्वनतः' इत्यगागमे 'अदेल्लुक्यात्खोरतः' इत्यतः 'आत्' 'अतः' इति चानुवर्तते । तुमौ ॥ २।४ । १६ ॥ __ अदन्ताद्धातोरुत्तमपुरुषैकवचनादेशे मौ परे आत्वं तु भवति । इति धात्ववयवस्यागागमस्य विकल्पेनात्वे होआमि । होअमि । मौपरे इत्वमिति केचित् । होइमि ।। वा लड्लोटूछतृषु ॥ २।४ । २०॥ १ स्तः T. २ उत्तमैकवचने P., My. ३ स्यात् T. ४ होअमि । होआमि. T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy